________________ 114 नयचक्रम् / [ हवनक्रिया। अतस्तदर्थत्रयमुपसंहृत्य हेतुहे(त्र)यनिगमनार्थमाह-शैलीप्रामाण्ये चास्य शैल्या यूपक्रियायाथार्थ्यात्। शैलीप्रामाण्यं चावलम्ब्यमानस्याग्निहोत्रस्य यूपक्रियाया उक्तविधिनैवायाथार्थ्यात् / यथार्थस्य भावो याथार्थ्यं / न याथार्थ्यमयाथार्थ्य तस्मादयाथार्थ्यात् / यूपक्रियाया अग्निहोत्रक्रियायाः शैलीसाम्यं नास्ति / अतो न युक्तं विध्यन्तरविधानशैल्या तत्सिद्धिर्युपच्छित्त्यादिवदिति / अथवा शैलीप्रमाणं शैल्यनुमानं तस्मिंश्च शैलीप्रामाण्येऽभ्युपगम्यमाने चाग्निहोत्रस्य शैल्या यूपक्रियायाः अयाथार्थ्यात् कथंकारं विधिविध्यन्तरशैल्योस्तुल्यार्थीप्रसिद्धेरैलौकिकत्वादनुमानाऽनुपपत्तेः / लोके हि दृष्टमनुमीयते / ननु यूपकरणमष्टास्त्रादिरूपमग्निहोत्रकर्मधर्म्यस्वरूपपृथग्भूतं प्रसिद्धमस्ति / यतस्तच्छैल्याग्निहवनशैल्यनुमीयते / तस्माच्छैलीप्रामाण्ये चास्य शैल्या यूपक्रियाया याथार्थ्यात् तत्सिद्धिरयुक्तैव / हवनाग्निहोत्रयोर्भेदेऽपि हवनानुवादविशिष्टाग्निहोत्रविधित्वे चोक्तन्यायेन दृष्टान्तवैषम्यान्न शैल्यनुमानमिति आह-ननु सेवादिवत् क्रियामात्रत्वादितिकर्तव्यताभ्यःप्रतिपत्तिः। यद्यप्यग्निहोत्रक्रियामात्रत्वयूपच्छेदादिशैलीवैषम्यं तथापि सेवादिक्रियावदेव तद्भविष्यति यथा हि सेवेत्युपस्थानाञ्जलिकरणादिस्खाम्याज्ञानुवृत्तिभजनार्थी विशेषेण मनोवाकायपरिस्पन्दभेदात्मिकैकैव स्वामिचित्तानुरोधलक्षणा सेवा / एवमग्निहोत्राख्या एका क्रिया न सा स्वावयवकलापव्यतिरिक्ता काचिदस्ति, तस्मात् ता एव पश्वालम्भनप्रोक्षणादिक्रिया अग्निहोत्रमित्यभेदेनोच्यन्ते / आदिग्रहणात् कृषिवाणिज्यादिक्रियामात्रत्वं, ताभ्य एव इतिकर्तव्यताभ्यः प्रतिपत्तिः तथेहापीति / अत्रोच्यते-तत्र भजनार्थसेवाज्ञातत्वे तासांसेवार्थत्वात्। अत्रापि दृष्टान्तदाष्टोन्तिकयोवैषम्यादित्यभिसम्बन्धस्तदर्शयति / भजनं भक्तिः सेवार्थः सेवाया इति भजनार्थसेवा तस्याः सेवाया ज्ञातत्वे तासां तदवयवाभिमतानामुपस्थानाअलिकरणादीनां सेवार्थत्वात्, अज्ञातत्वे तदर्थाप्रतिपादनात् / ज्ञाता एव हि ताः सेवेति प्रतिपत्तिं जनयन्ति नान्यथा / न त्वेवमग्निहोत्रावयवक्रिया ज्ञाताः। तस्माद्वैषम्यमवश्यं चैतदेवम् , इतरथा प्रति क्रियां पृथक्त्वापत्तेः। यथा कृषिसेवयोः परस्परं तदङ्गक्रियाणां च पृथक्त्वम् / तदङ्गत्वेनाज्ञातत्वात् / एवमग्निहोत्रस्य तदङ्गक्रियाणां स्यात्, ननु भवति तदङ्गभावेनाज्ञातत्वादग्निष्टोमादीनामिति / आह-नात्रापि दानाद्यर्थत्वाद्वैषम्यम् ? किं कारणम् ? अत्रापि हु दानादनयो रिति दानाद्यर्थत्वाद्धवनादीनामज्ञातत्वमतोऽग्निहोत्रस्यापि ज्ञातदानाद्य , श्वा ग। 2 °त्यक ग। 3 °स्तुल्यार्थी ग। 4 प्रसिद्धौरलौ क-ख। 5 त्वद् क° ग। स्वात् क। 6 तामेवेति ग।