________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / चोदिता पश्चादष्टाभिं पलाशं बैल्वं चेत्यादीतिकर्तव्यताचोदनया स्वरूप व्यवस्थाप्यते, तथेहापि। आचार्य आह-एतदपि न, वैषम्यात् / दृष्टान्तदाान्तिकयोः शैलीवैषम्यात् / तद्वैषम्यं कालतः प्रसिद्धितोऽवधारणतश्च / तत्र कालतस्तावन्न हि स च्छेदनक्रियाकाल एव यूपो भवतीति वाक्यशेषः,च्छेदनाद्यानर्थक्यप्रसङ्गात् / किं तर्हि ? च्छेदनादिक्रियाभिः संस्कृतः सन् भविष्यति यूप इत्थंवरूपस्य तस्य काष्ठस्य तदा यूपत्वं नामतो युक्तम् / यूपस्वरूपं कालान्तराभाव्युपेक्षितं न पुनरग्निहोत्रस्य तदैव सतः संस्कारनिरपेक्षस्य कालान्तराभाव्यर्थोपेक्षणमिति वैषम्यम् / इतर आह-ननु वत्सदृत्तेत्यादि यावत् स्थूणेन्द्र इति / यथात्र तादात् ताच्छब्द्यमेवम् / यूपार्थे दारु यूप.इति तत्कालत्वात् / अत्रोच्यते च्छेदनस्य संस्कारता न विहिता स्यात् / यूपस्य निर्वृत्तत्वात् / तन्निर्वर्तनार्थो हि च्छेदनसंस्कारात् / तस्यामसत्यां च संस्कारतायां च्छिदिरविवक्षितार्थः स्यादसंस्कारार्थत्वेऽनर्थक एव च्छिदिः स्यात् इत्यर्थः / तस्माद्यावदेव यूपं स्वीकरोति सत्त्वेन परिगृह्णातीत्युक्तं भवति तावदेव च्छिनत्तीत्युक्तं भवति, छिनत्तेः संस्कारार्थरहितत्यान्मा भूदयं दोषो दृष्टविरुद्धत्वाददृष्टार्थो वा स्यादिति वर्तते / नैवादृष्टार्थस्तत्फलत्वादेवम् / तावत्कालतः शैलीवैषम्यादयुक्तमुक्तं विध्यन्तरविधानशैल्या तत्सिद्धियूपं छिनत्ति, पलाशमष्टाश्रिमित्यादिवदिति / अवधारणवैपम्येऽपि अत इयमित्यादि / अनन्तरोक्ता येयं भावना तयैव भावनयाऽवधारणवैपम्येऽपि भावयिष्यामि / अत आह-या तत्र भावना / यूपं च्छिनत्ति च्छेदनेन यूपं स्वीकरोतीतिच्छिंदेः संस्काराभावे यूपस्वीकरणार्थतया उक्तत्वात् / तत्र च कथमवधार्यमुच्यते / न च च्छेदनमेवावधार्यते करोतीति वर्तते / कस्तत्र दोष ? इति चेद्यत एवकारस्ततोऽन्यत्रावधारणमष्टाश्रिकारणादीनामसंस्कारत्वप्रसङ्गः। तदत्र प्रसक्तम् / तत्तु नेष्यते किन्तु करोत्येवेत्यवधार्यते, स्वत्वेन परिग्रहमात्रप्रतिषेधार्थमेषावधारणभावना यूपे, सेहँ हवनविधिवाक्येन न शक्याश्रयितुं, किं कारणमशक्येति चेदवधारणासम्भवाद्धवनेनाग्निहोत्रं करोतीति / कथं पुनरसम्भवः ? / यस्माद्धवनेनाग्निहोत्रं करोति न प्रव्रज्यादिना न च करोत्येवेत्यवधार्यते / स्वर्गादिकामाभावे करणाभावादित्यवधारणवैषम्यम् / हवनेनाग्निहोत्रं करोतीति हवनाद्यन्यस्याग्निहोत्रस्याभावात् / अत एव प्रसिद्धिवैषम्यमपि, तस्याग्निहोत्रस्याप्रसिद्धस्य क्रियाकलापाभिमतार्थानामवयवत्वात् प्रसिद्धयपद्रव्यच्छेदनादिवैषम्यं मात्रग्रहणं नामधेयत्वसामान्यमेवानुमीयेत / नार्थविशेष इदं तदग्निहोत्रं नामास्त्विति / तस्मात् प्रसिद्ध्यप्रसिद्धिभ्यामपि वैषम्यमिति / 1degdeg ग। 2 °च्छेदैः ख-ग। 3 स्नेह° ग। 4 विधेवाक्यन ग। न.च०१५