________________ नयचक्रम्। 112 [ हवनक्रियास्यापि जुहोतिप्रत्युपादानवत् नान्तरीयकत्वात् प्रयोगोऽर्थोऽस्याविवक्षित इति प्रा. सम्। ततश्च भसहोत्रं जुहुयादित्येतद्वाक्यं साधीयः, अग्निहोत्रं जुहुयादित्येतत् साधीयः। इति केन हेतुना परिच्छेद्यम् किं चान्यत्--युक्ततरी तु तदविवक्षा। अम्याद्यविवक्षा / किं कारणम् ? वक्ष्यमाणन्यायदर्शनात् / वक्ष्यमाणो हि विधिविधिनयेऽयं न्यायो द्रक्ष्यते भवता 'पुरुष एवेदं सर्वमित्यादि / तदर्शनाच्चेदमन्यादिविकल्पासत्वान्नाग्निहोत्रं न होतेत्यर्थाभावादेवाविवक्षा न्याय्या। किं कारणम् ? अर्थतत्वतत्रत्वात्तस्याः। अर्थवशाद्वा विवक्षा वा भवितुमर्हति नान्यथेति / ___ तदुपसंहृत्याह-एवं तावदित्यादि / एवम्-अनन्तरोक्तोपपत्तिविधिना।अग्निहवनं कुर्यादित्येतसिन्नर्थे प्रदर्शितदोषत्वात्। अथवा अग्निहोत्रं कुर्यादग्निहोत्रं जुहुयाद्धवनं कुर्यादग्निहोत्रं हवनं कुर्याज्जुहुयादित्येवमाद्यर्थेषु प्रदर्शितदोषत्वात् , तावच्छब्दः क्रमार्थः। दोषान्तराभिधानमपि भविष्यति।एष तावदोष इति अप्रत्यायकत्वमस्य वाक्यस्य / कुतः१ अप्रत्यवेक्षितार्थयाथातथ्योक्तेर्वालप्रलापवत्। यथातथाभावो याथातथ्यमर्थस्य याथातथ्यमथेयाथातथ्यं तस्मादथेयाथातथ्यात् तस्याप्रत्यवेक्षितस्याविचारितस्य / किंस्वरूपोऽयमर्थः / प्रमाणं प्रमेयः, केन वा रूपेण प्रमाणं प्रमेयो वेत्यप्रत्यवेक्षितस्यार्थस्योक्तेः / शब्दस्वार्थस्य वा प्रत्यायकखरूपमप्रत्यवेक्ष्योक्तत्वात् तदप्रत्यायकत्वम् / अर्थत्वाचशब्दस्तदभिधेयो वा प्रत्यवेक्षितयाथातथ्योक्तेरेवाप्रत्यायकः प्रधानादिवदिति वैधयेण तस्मादप्रत्यवेक्षितार्थयाथातथ्योक्तेः / यदि शब्दद्वारेण यद्यर्थद्वारेणोभयथाप्यप्रत्यायकत्वं सिद्धमतश्चाप्रत्यायकत्वादनुपदेशत्वं बालप्रलापवदेव / / किं चान्यत्-अग्निहोत्रं हवनं कुर्यादित्यस्मिन्नेवानन्तरोक्तेऽर्थे दोषान्तरक्रमः / त्वदभिप्रायवदित्यादि / त्वदभिप्रायेण तुल्यं त्वदभिप्राय इव त्वदभिप्रायवत् / यथा त्वदभिप्रेताग्निहोत्रहवनं कुर्यादित्येतसिन्नर्थे हवनानुवादेन विशिष्टेऽग्निहोत्रेऽभ्युपगम्यमानेऽग्निहोत्रस्य त्वदिष्टस्य कर्मणः साङ्ख्यादिपरपरिकल्पितात्मादिवस्तुतत्त्वस्यालौकिकस्याप्रसिद्धस्य दुर्ज्ञानत्ववदलौकिकत्वादप्रसिद्धस्वरूपत्वात् / दुर्तानत्वमविज्ञातस्य च करणासिद्धिः सा हवनक्रिया न सिद्ध्यतीत्यर्थः / अत्र परेणाथोच्येत परिहार:-विध्यन्तरविधानशैल्या तत्सिद्धिरिति / अग्निहोत्रं जुहुयादित्येतस्माद्विधेरन्यो विधिविध्यन्तरं यूपं च्छिनत्तीत्यादिस्तस्य वि. धानविवक्षितनिरूपणं पूर्व पश्चादिति कर्तव्यताभिनिरूपणं शैलीखभावः शैल्या दृष्ट्या विधित्वादस्या विधेर्या शैलीत्यनुमानात् सिद्धिर्भवति / कस्य पुनर्विधेः? विध्यन्तरविधानशैल्या सिद्धिदृष्टा। यथा यूपं च्छिनत्तीत्यादि, यावत् पलाशमष्टाश्रमित्यादीनि / शैल्यनुत्पादन दृष्टान्तमाह-यथात्र पूर्वमविवक्षितनिश्चयावधारणात्मिका कर्तव्यता१ ऋ.वे.म. 10, सू. 90 / ऋक् सं० मण्ड० 20, सू.१० 30 2 / श्वेताश्वत०उ०१३, 15.