________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलकृतम् / तुल्यम्। अथाचक्षीथाः काष्ठपाषाणादिसंघट्टजनिताचेतनशब्दवत सर्वमचेतनं प्राप्यते चेतनत्वं कुतोऽस्य प्रामाण्यमचेतनत्वात् आकाशवत् , एवं च कृत्वाऽचेतनत्वात् कुतोऽस्य वचनम् ? यच्छब्द आह-तत्र प्रमाणमितीष्टं भवता भाषणं वचनमुक्तिः शब्दोच्चारणं भावसाधनत्वात् वचनशब्दस्याचेतनत्वाद्वक्तृत्वमस्य नास्तीत्यर्थः / कथम् ? अज्ञोदीरितत्वादेव च / वचनत्वमस्य नास्ति वाच्यार्थप्रतिपादनाभिसन्धिपूर्वकं तत् / तदभावे तूक्तमित्यत आह-काष्ठशब्दवदित्थमचेतनत्वेऽपि न घटते वेदवाक्यप्रामाण्यमत्राह / यदुक्तं प्राक 'को वाह ज्ञवचनमेतदिति द्वितीये विकल्पे / न ब्रूमः सर्ववक्तृवचनाप्रामाण्यमिति, स्ववचनविरोधदोषात् किं तर्हिी सर्वज्ञवीतरागाधभावान्थस्य सर्वभावश्च भावविषयस्य कर्तुरप्रामाण्यं न तु वक्तुरनादिनिधनस्य वक्तपरम्परागतस्य वक्तृवचनयोः क्वचित् प्रामाण्यादिति / / अत्रोच्यते-आदिवक्तृवच्चोत्तरवक्तर्यपि / यथादिवक्तारोऽप्रमाणमसर्वज्ञत्वादवीतरागत्वाच्च शास्त्राणां सर्वभावस्वभावविषयाणां यथार्थज्ञानवचनहीनास्तथा हि-मदनादिप्रसिद्धानां शास्त्राणामध्येतारो यथार्थज्ञानवचनहीनास्तस्मादुभयेषां ज्ञातृत्ववक्तृत्वयोयथार्थयोरनाश्वासस्तुल्यः। किमिव धातिकमत्रादिवत् / यथा धातुविषयावलादिवादिकानां ज्ञानानि मत्रवचनानि च विप्रलम्भभूयिष्ठत्वादनाश्वासनानि / आदिग्रहणाद्वशीकरणमत्रयोगादिवत् / तत आहादिकर्तृवच्चोत्तरवक्तर्यपि वातिकर्मवादिवत् तु वचनानाश्वासतुल्यतेत्यलमतिप्रसङ्गिन्या कथया। किंच-यदूक्तमविवक्षितार्थार्नार्थकापि कर्तृप्रत्ययसाहायककारिणी जुहोतिप्रकृतिरुपात्तेत्येतदपि न्यायविरोधादयुक्तम् / कथम्? कचिच्चेत्यादि / क्वचिचेति न सर्वत्र। यथा नक्षत्रं दृष्ट्वा वाचो विसृजन्तीति / कतरदेवदत्तस्य गृहम् ? अदो यत्रासौ काक इति / नक्षत्रे त्राणपक्षिणि वोपयुक्तार्थयोरेव दृष्ट्वा काकशब्दयोः सार्थकयोः काकगृहोपलक्षणेऽर्थे सत्येव नक्षत्रदर्शनकाकार्थाविवक्षया न्यायादनपेता न्याय्या दृष्टा।नानार्थकस्यैवोन्मतप्रलपितादेस्तथा तयोरग्निहोत्रहवनयोः सार्थकार्थवत्त्वेन दृष्टयोस्तदविवक्षया च सार्थकत्वं दृष्टमतो न्यायापेतमेतदुक्तमविवक्षितार्थस्यानन्तरीयकत्वात् / प्रकृतेः प्रयोगो जुहुयाच्छब्दस्येति / किं कारणम् ? प्रयुक्तस्यानर्थकत्वाभावप्रसङ्गात् / यद्येष न्यायः शब्दानां प्रयोगे नियतो न स्थानान्तरीयकत्वादपि प्रयोगे साधुत्वमेव स्यात् / ततश्च प्रमादादप्रमादाद्वा प्रयुक्तस्य शब्दस्यानर्थकत्वाभाव एव स्यात् / प्रमत्ताप्रमत्तवज्ज्ञविशेषश्च स्यान्न त्वेवं भवति दृष्टशिष्टेष्टविरुद्धत्वात्। स्यान्मतम्-उपलक्षणादिप्रयोजनायां विशेषविवक्षायां किमनया स्वार्थाविवक्षया सर्वस्य शब्दप्रयोगवक्तुर्विवक्षितपूर्विकत्वात् प्रवृत्तेरविवक्षाविवक्षयेत्येतदयुक्तम् / विवक्षाविवक्षयोरनियमेन शब्दासंवृत्तौ सत्यामप्रयोजनायां चाविवक्षायामन्याद्यविवक्षाभावे विशेषहेतुर्वाच्यः। अग्निशब्द