________________ 110 नयचक्रम् / [ हवनक्रियार्थितत्वादेवमेवास्तु / आचार्य आह-स्यादेवं यदि सापि चार्थस्थितिनिर्दोषा स्यात् किन्तु साऽपि चापक्षिप्तवाच्यार्थस्थितिरुक्तवत् / तस्यामप्यर्थस्थितौ निराकृतो वाच्योऽर्थः जुहोत्यर्थत्यागभेदाभ्यामित्यादि प्रबन्धेनोक्तत्वात् / यथा श्रुतार्थाभावादिदोषात् पौरुषेयत्वादिप्रसङ्गाच्च / एवं तावन्यायेन परीक्ष्यमाणमेतद्वाक्यं न युज्यते / पुरुषतर्कलक्षणेन, यद्यपि पुरुषतर्कलक्षणं न्याय्यमतिलंघ्यापौरुषेयो नित्यो वेदाख्यः क्रियोपदेशः पुरुषंगतरागादिदोषाशङ्काहेतुविनिर्मुक्तः प्रमाणम् / पुरुषकृतानि हि वाक्यान्यविद्यारागाद्यवियुक्तपुरुषवदप्रामाण्यान्यफलाऽशक्यप्राप्तिनित्यानित्यादिवस्तुतत्त्वविचारविषयाणि सफलशक्यप्राप्तिपुरुषहितोपायक्रियोपदेशात्तु वेदवादः श्रेयानितीष्टं तथापि तद्वचनादेवासिंस्तु न्यायेऽतिलच्यमाने क्रियोपदेशवादोऽपि तत्त्ववादवदेव त्यक्तः स्यात् / किं कारणम् ? तत्रापि यदृच्छाभ्युपगमात् / अविद्यारागाद्यवियोगादेव सर्वपुरुषाणां वक्तृश्रोतृपुरुषाधीनत्वाच्चो. पदेशपरम्पराया न कश्चिद्धद्धिपूर्व उपदेशः, अतः सुप्तमत्तादिविप्रलापवद्यदृच्छयाभ्युपगतो वेदो वैदिकैः, अत इदमापन्नम् / 'को वा तद्वेदाग्निहोत्रं जुहुयात् स्वर्गकाम' इत्येतद्वाक्यं सार्थकं निरर्थकं वेति ? किमिव ज्ञायते बालप्रलापवत् ? / यथा हि बालैरनियतक्रियाकारकैरसम्बद्धमुक्तमबुद्धिपूर्वत्वाज् ज्ञातुमशक्यम् / केनार्थन? अर्थप्रत्यायनार्थवदिति। किं कारणम् ? व्यवस्थोपेतबालशब्दप्रयोगो ह्यर्थप्रत्ययनार्थः स्वनिश्चितार्थप्रतिपादनसमर्थनियतवर्णानुपूर्वीकः प्रत्युपेक्षितवाच्यवाचकसम्बन्ध इतीयं लोकशास्त्रव्यवस्था / ततोऽपेतब्रह्मादिसर्ववेदवादिवचनम विद्यारागाधवियोगात् तेषाम् , इत्यशक्यप्राप्तिरनिहवनविधानादिवाक्यार्थस्य / तस्मात् को ह वैतद्वेद बालप्रलापवद् व्यवस्थापेतमुदितम् / किं चान्यदफलं चैतदित्यत आहकिं वाऽनेन ज्ञातेन यदेतज्ज्ञवेदज्ञा अग्निहोत्रकर्मज्ञा एवमुक्तवन्तोऽग्निहोत्रं जुहुयादिति वाक्यमव्यक्तमव्यक्तार्थमस्फुटार्थ यसादव्यक्तज्ञाना एव ते पुरुषत्वादविद्यायोगाच दशदाडिमादिश्लोकवादिवत् / अविद्यायोगं दर्शयति-यद्यद् ज्ञानादिति, रागादियोगं च दर्शयति / यदि द्वेषादेः। इतर आह-विफलोऽयं प्रयासोऽनिष्टापादने तेऽभ्युपगमत्वात् को वा आह ज्ञवचनमेतत् / ननु प्रागुक्तं संशयविपर्ययानध्यवसायसंपृक्तत्वात् निर्णयस्याप्यज्ञानमेवेति / अथवा को वाह ज्ञवचनमेतदिति / तस्य पुरुषस्य सर्वत्र प्रमाणभूतस्याभावात् / किं तर्हि ? शब्दस्यैव च निर्दोषत्वादिति / __ अत्राचार्य आह-यदि संशयादियोगान ज्ञः प्रमाणं तीदमज्ञोक्तत्वादुन्मत्तवाक्यवदिति क्रियोपदेशसाफल्यवादः क्व गच्छतीति चिन्त्यताम् / एवं तावद्बुद्धिपूर्वकमकारादिवर्णानुपूर्व्या शब्दोचारणं चेतनोदीरितं काकभाषितं पुरुषभाषितं वा १ज्ञस्य क-ख / 2 कालवाशितं पुरुषवासितं क-ख।