________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 109 दित्येतत् पद कुतो विधीयमानत्वात् योऽर्थो विधीयते न सोऽनूद्यते / आख्यायमानपण्डितत्ववद् यथायं पण्डितो देवदत्त इति विधीयमानपाण्डित्यो देवदत्तो नानूद्यते। तथा जुहुयादित्येतदप्यपूर्वोपदेशत्वाद् अनुवादवैधाचास्य तल्लक्षणाभावात् / किं तल्लक्षणमिति चेत् ? विहितमेव त्वनूद्यते च विशेषविधानार्थं यथा पटुर्देवदत्तः, पयसैनं भोजयेति तल्लक्षणाभावात् / किं तल्लक्षणाभावात्। नानुवादो यत्र न विशेषो विधीयते मौलविधेरेव सः / एवं तर्हि विशेषविधानादनुवादोऽस्तु तद्वदिति चेत्तने भवति / यस्मान्न चात्र कः कश्चिजुहोति / पुनर्वचनेन विशेषो जन्यते। जुहुयादित्यनेन शब्देनाग्निहोत्रशब्दाभिहितादर्थान्न कश्चिदन्यो विशिष्टोऽर्थोऽभिधीयते यतोऽनुवादः स्यात् / ततश्च प्राक्तनमेव सञ्जातम् / यावदेवाग्निहोत्रं कुर्यादिति वाक्यविकल्पेऽभिहितं तावदेवाग्निहोत्रं जुहुयादित्यत्रापि वाक्ये ततोऽधिकं न किश्चिदस्ति / एवं यां तां गतिं गत्वा कल्पयित्वापि सर्वथा सर्वप्रकारेणाग्निहोत्रं जुहुयादित्यसिन् वाक्येऽग्निहोत्रकर्मण्येवान्तर्भावितहवने जुहुयाच्छब्दप्रकृत्यर्थे किमतिरिच्यते। पौनरुत्यदोषव्यपेतो विधिलिद्वर्तयोस्ते, विधौ विहितस्य लिट्प्रत्ययस्य कतेकारकस्य तन्मात्रोऽर्थ आस्ते न दूषितः। अन्यत् सर्व पुनरुत्त्यादिदोषदुष्टमेवेत्यर्थः / अग्निहोत्रं कुर्यादग्निहोत्रं जुहुयादित्येतयोर्वाक्यार्थविकल्पयोरुक्तदोषत्वादतो नानुवादः / उक्तदोषसम्बन्धादित्यर्थः / कथमिति चेत् ? उत्तरविशेषासम्बन्धनात् विधीयमानपण्डितत्ववदित्येतदनन्तरोक्तार्थसमाहारार्थं साधनं गतार्थम्। तस्मात् कअर्थमात्रमवशिष्यते / शेषं पुनरुक्तम् / __ अथोच्येतेति / परमतमाशङ्कते-अथाऽन्यथोच्येत विधिलिङ्कर्बर्थः प्रत्ययार्थोऽनुक्तत्वादवशिष्यतेऽवश्यं च वाच्योऽसौ तस्मिन् प्रत्ययार्थेऽवशिष्यमाणऽकायवाच्ये 'प्रकृतिपरव्यवस्थाया' इति हेत्वथै पञ्चमी / प्रकृतेः परः प्रत्ययः प्रयोक्तव्य इतीयं व्यवस्था तस्याः व्यवस्थाया मर्यादायाः स्थितेः हेतोरावश्यकं प्रकृत्युपादानम् , तसिंश्वावश्यके प्रत्युपादाने प्राप्ते कतमा प्रकृतिरुपादातुं योग्येत्येवं विचारयतः इदं मे योग्यमिति प्रतिभाति / वरमासन्ना प्रकृतिरुपात्ता, अर्थः पुनरस्या न विवक्ष्यते / गतार्थत्वात् तस्मादविवक्षितार्था सा। सत्यपि नान्तरीयकत्वे प्रत्यासनप्रकृत्युपादाने विलक्षणां सत्यां परित्यज्याविलक्षणा जुहोतिप्रकृतिरेवोपात्तेत्यवसेयम् / प्रयोगोऽग्निहोत्रं जुहुयादिति चोच्यते / एवं तर्हि वरं वरं कमित्यादि, चेन्मन्यसे वरमासन्नप्रकृत्युपादानम् / नान्तरीयकत्वा. दिति / तत्राहमेव ते वरं वरं कं साहायकं ददामि बुद्धेः ? कर्तृप्रत्ययान्तया कृञ्प्रकृत्या प्रत्याय्यते स्फुटतरमतोऽग्निहोत्रं कुर्यादित्येवास्तु / इतर आह-त्वयैव सम शब्दोद्य क-ख / 2 तत्र ग। 3 विधीयते क-ख। 4 अर्थोन्वयो का अथो त्वयो ख /