________________ 108 नयचक्रम् / [ हवनक्रियाते। नन्वर्थद्वयविधानमशक्यमेकेन वाक्येन / अग्निसम्प्रदानकस्य कर्मभृतस्य हवनस्य तद्विशिष्टस्य च कर्तृकत्वस्य यथा ब्राह्मणसम्प्रदानकहविर्दानवाक्येन शुक्लगवानयनमपि / इतर आह / नैव हवनं विधीयत इत्यादि / जुहुयाच्छब्देनैव हवनं विधीयते / किं तर्हि? अग्निहोत्रशब्देन विहितं हवनमनूद्यते विध्यनुवादयोर्भिन्नलक्षणत्वात् / किं तयोर्लक्षणमिति चेत् ? उच्यते-प्राप्तमनूद्यते वाक्यान्तरेण यथा पण्डितः तिष्ठतीति, शास्त्रज्ञः पण्डित इति वाक्यान्तरविहितपाण्डित्यस्य स्थानानुवादात् / अप्राप्तं च विधीयते यद्वाक्यान्तराप्राप्तिमद् विज्ञातं प्रमाणान्तरेण तद्विधीयते / यथा स्वर्गकामो जुहुयादिति / अत्रोच्यते-यद्येतद्विध्यनुवादयोर्लक्षणं नानुवादो हवनस्य युज्यते यमान च प्राप्तिरस्ति हवनस्याविहितत्वात् / इतर आहअस्ति प्राप्तिहवनस्याग्निहोत्रस्य हवनत्वात् तस्य त्वविहितत्वादित्यत आह-यदग्निहोत्रं हवनमेतत् पुनरुक्तं तवमनयोरग्निहोत्रहवनविधानयोरविशेषः / एतचार्थे पुनरुक्तं च नानुवाद उन्मत्तवाक्यवत्।। अनुवादलक्षणाभावं चास्य दर्शयति-विधिविहितस्य हि अनुवदनमनुवाद इति / हिशब्दो यस्सादर्थे / यस्माद्विधिवाक्यविहितस्यार्थस्य पश्चादर्थविशेषप्रापणार्थानुवादोऽनुवादस्तदत्र लक्षणं न घटते / अग्निहोत्रहवनविधेयत्वात् / अग्निहोत्रस्य हवनस्य चैकीभूतयोविधेयत्वात् / तन्निगमयति-अनुवादयोग्यतेति। अथापेशब्दो वानुवादो यथा कथंचित् स्यात् / स्थान्मतम्-वक्तुविवक्षितपूर्विका शब्दप्रतिपत्तिरित्यस्य हवनस्य विधानं विवक्ष्यतेऽनुवादो विवक्ष्यत इति / एतदपि यथा कथंचित् स्याद्विहितार्थाभावाद्विवक्षेच्छयोरनान्तरत्वादिच्छामात्रतश्च / निरुपपत्तिकस्वार्थस्यासिद्धेर्न स्यादित्यभिप्रायः। यद्यपि यथा कथञ्चित् स्यात् ततः पुनरुक्तदोषाभाव एव स्यात् / इष्यते च पौनरुक्त्यं शब्दतोऽर्थतश्च। 'उक्तार्थशब्दार्थकथनमविशेषेण पुनरुक्तमन्यत्रादरादिभ्य' इति पौनरुक्त्याभावः / उक्तं हीति पुनरुक्तापवादमर्थविशेषापेक्षं दर्शयति-अनुवादात् पण्डितमानयेत्युक्ते पण्डितो देवदत्त इत्यनुवादो न पुनरुक्तम् / एवमादरे स्वामिन् ! स्वामिन्निति / वीप्सायां ग्रामो ग्रामो रमणीयः। भृशार्थे द्यूतं धूतम् , मृदु मृदु, शनैः शनैरिति / विनियोगे घटं कुरु, घटं कुर्विति / हेतौ कृतकत्वादनित्यो घटस्तस्मात् कृतकत्वादिति / असूयायां विपर्ययस्यास्सं हसति हसतीति / ईषदीपदिति, स्तोकं स्तोकमिति / संभ्रमे स्वागतं स्वागतमिति / विस्मये विद्याधरो विद्याधर इति / गणने एकमेकं द्वे द्वे इति / सरणे आ! विदितो विदितः पाटलिपुत्रे दृष्टोऽसीति / एवमाद्यर्थविशेषाभावे पुनरुक्तदोषावश्यंभावात् / न चेदनुवादत्वमस्य पौनरुक्त्यमेवास्य / पौनरुत्याभावे नानुवादत्वं तस्मादिदं त्वनुवादाक्षममयोग्यमित्यर्थः। कतमजुहुया१° स्वादिति / अन्य °क-ख / 2 अर्थावग। णत्वेच्छन्दो क-ख /