________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 107 विशेषार्थयोरितरेतरार्थवृत्त्या भेदः स्वप्रकृतिबलेन पिण्डनविप्रकरणात् तद्भेदवत्तद्धलेनास्यापि। तथा तद्बाधिन्योः प्रकृत्योरपि भेदस्ताभ्यां त्यागोपादानाभ्याम् / कयोः प्रकृत्योरिति चेद्धातुप्रातिपदिकयोभैदस्तत आह-धातुप्रातिपदिकप्रकृतिभेदोऽपि न, तदभेद एव सः। कुतः पदभेदः? इति चेत् , पदान्तरविषयत्वात्। पदान्तरस्य विषयोऽस्येति पदान्तरविषयं तत्पदमाख्यातं नाम वा तद्भावात् पदान्तरविषयत्वात् कुर्याजहुयादिति / अथवा वाक्यार्थविचारः प्रधानमीमांसकस्य / यदुक्तं प्राग्वाक्यभेदो विध्यनुवादत्वापत्तेः' इति / स तु न केवलो वाक्यभेदः पदभेद एव वा। किं तर्हि ? धातुप्रातिपदिकभेदोऽपीत्यभिसम्बध्यते / नन्वनुवर्तनात् तत्र को हेतुरिति चेत् / अज्ञातस्याग्निहोत्रस्य क्रियाविशेषणत्वेनानुवादात् / अज्ञातार्थो विधिः, ज्ञातार्थोऽनुवादः / अग्निहोत्रमज्ञातत्याद्विधीयते / तत् कुर्यात्रुहुयावनं कुर्यादिति जुहोतिक्रियया विशेष्य प्रसिद्धस्य विहितस्यैवानुवदनादिति प्रागुदितमर्थमुपपत्तित्वेनोपदर्शयति ततश्च किमेवं चेत्यादि, यावत्तस्य प्रभावः / एवं चेत्यनन्तरनिर्दिष्टक्रियानामस्ववृत्तित्यागोपादानाभ्यामेव श्रुतेर्यासौ प्रतिपत्तिः जुहुयादित्यस्याः पदश्रुतेहवनक्रियाविधानमर्थो जुहुयाद्धवन कुयोदिति तस्या भावः सा न भवत्यनार्थाधिगतेयच्छब्द आह तन्नः प्रमाणमिति च हीयते / नामाख्यातयोरर्थभेदत्यागोपादानदोषेभ्यश्च शब्दाव्यवस्थानात्, तदव्यवस्थानात् पुरुषबुद्धिवशेन शब्दार्थावस्थानम् / कुतः? स्वप्रत्युपेक्षानुवादे न्यायेन च तत्त्यागात् / स्वयं प्रत्युपेक्षितोऽर्थस्त्वयायमस्य शब्दोऽस्यार्थ एवं भवति न वेति दोषवत्वादयं त्याज्योऽयं गुणवत्त्वादाश्रयणीय इति विचार्य स्वमतिप्रमाणीकरणेन श्रुतिप्रामाण्यत्यागः कृतः। ततः तत्त्यागात् कर्ताद्यर्थप्रतिपत्तिवशेन शब्दार्थावस्थापनात् तु पुरुषस्य ज्ञानमेव प्रमाणीकृतं तस्यैव विध्यर्थवदवस्थितस्यानुवदनात् / अतश्च ते वादावसानं विग्रहस्थानं पुरुषज्ञानप्रामाण्याश्रयेण क्रियोपदेशवाक्ये प्रमाणीकरणात् प्रतिज्ञात्यागः प्रतिज्ञान्तरगमनलक्षणम् , एष च प्रतिज्ञात्यागप्रतिज्ञान्तराश्रयणदोषः, इतरत्राप्यर्थव्याख्याने हवनं कुर्यादित्येतस्मिन् भवति / कस्मात् ? स्वप्रत्युपेक्षानुवादेन च तत्त्यागात् / काद्यर्थनियतप्रतिपत्तिवशेन शब्दार्थस्थापनात् / एवमेव स प्रकृतिप्रत्यय एवाग्निहोत्रशब्दो वा बाध्यते / शब्दप्रामाण्यत्यागेन स्वमतिप्रामाण्यावलम्बनात् / एवं तर्हि यथाश्रुत्यग्निहोत्रबद्धवनमपि ग्रहीष्यते / आह-न शब्दार्थं त्यजाम्युक्तदोषभयात् / किं तर्हि ? या वा श्रुतियेथाश्रुति यथाग्निहोत्रशब्दश्रवणात् तदर्थो गृह्यते / तथा हवनमपि जुहुयाच्छब्दश्रवणाद्रहीष्यते ततो न दोषोऽस्तीति / तदेकत्र हवनमग्निसम्प्रदानविशिष्टकर्मकारकतयोच्यतेऽन्यत्र स्वविशिष्टकर्तृकतयेति / अत्रोच्य निरस्ता क-ख।