________________ नयचक्रम् / [ हवनक्रियामति०'(पा. 4 / 4 / 50 ) रिति प्रातिपदिकवत् / अन्यथा देवदत्तः पचतीत्यत्रापि समासः स्यात् / ननु भवति सामर्थ्याभावाच्च समासानुपपत्तिः 'समर्थः पदविधिः' (पा. 211111) इत्यधिकारादसामर्थ्य च सापेक्षत्वात् यथा संकुलाखण्डमांतिपदिकस्य संकुलया खण्ड इति समासानुपपत्तिस्तद्वन्न च प्राधान्याभावाद्देवदतस्य गुरुकुलमित्यनेन तुल्यम् / तत्र तु प्रधानत्वाद्भवति समासः / उक्तं तु भवति हि प्रधानशब्दस्य सापेक्षस्यापि समास इति / न चात्राग्निशब्दस्य होत्रशब्दस्य वा प्राधान्यमस्ति / कुर्याज्जुहुयादिति तिङन्तस्य क्रियावाचिनः प्राधान्यात् साधनानां साध्यसिद्ध्यर्थप्रवृत्तित्वात् / अपशब्दो हि नामार्थविशेषविवक्षायां तदभिधायित्वरूपातिक्रमात् / यथा गोणीशब्दो हि सास्त्रादिमत्यर्थे सैवाभिधायिगोशब्द एव / यथा गावीशब्दोऽपि गव्यवसे यः। सक्तिर्गावीत्यस्मिन्नर्थे शब्द एव / तथा चोक्तं यस्तु प्रयुङ्क्ते कुशलो विशेषे, शब्दान् यथावद् व्यवहारकाले / सोऽनन्तमामोति जयं परत्र, वाग्योगवि, दुष्यति चापशब्दैः // 1 // (पाणि० व्या० म० भाष्ये ) तस्मादपशब्दश्चाऽयमसिन्नर्थ कुर्यादर्थोपादानं च भेदकमिति। साधूक्तं त्यक्तजुहो. तिकथग्रहे तु निःक्रियाकर्तृत्वात् कुर्यादर्थाभावः। अथाचक्षीथा एतदोषभयात् त्यतवा जुहोत्यर्थ निःक्रिय कर्बर्थमात्रमेव गृह्यते कुर्यादिति कर्तव्यतामात्रचोदनार्थः / एवं च सति त्यक्त्वा जुहोतिकर्बर्थग्रहे तु तुशब्दो विशेषणात्यन्ताभावे / तेनैवं विशेषयति, करोति कुर्यादित्येवमादिशब्दानां कृत्यप्रकृतीनां घटादिकर्मापेक्षानन्तरेण किं करोतु किं कुर्यादित्यनिर्णितार्थत्वात्कोऽर्थः स्यात् 1 कृत्सर्वाभावे कर्बर्थस्य निःसाध्यस्वकर्तृत्वं स्यादतः कुर्याच्छब्दो निरर्थकः। त्यक्तवप्रकृत्यर्थत्वात् तादृग्विधस्य कृदादिप्रकृतिरहितस्य पादादिप्रत्ययान्तस्य प्रयोगस्यादर्शनात् / अभ्युपेत्यापि प्रयोगं जुहोतिप्रयोगासत्वं ब्रूमः / असत्त्वमप्रशस्तत्वं कुतः? त्याज्यत्वात् / त्याज्यत्वं त्वया त्यक्तत्वात् / अस्मन्मतेनार्थाभावात् / अर्थाभावश्चोक्तविधिना सिद्ध एव / तस्मात् त्याज्यत्वादसत्त्वं जुहुयादित्यस्य प्रयोगस्य दृष्टान्तो व्याधिवत् / यथा व्याधिस्त्याज्यत्वादप्रशस्तः तथा जुहोतिशब्दोऽपि सार्थ इति / किंचान्यत्-क्रियानामस्ववृत्तीत्यादि / आख्यातस्य क्रियार्थं च रूढस्य स्वार्थ विप्रकीर्णावयवकलापं त्यक्त्वा पिण्डितहोत्रस्य स्वार्थीपादानम् / न च तमप्युपादाय तत्रैवावतिष्ठते / किं तर्हि ? पुनरपि सत्त्वार्थं त्यक्त्वा क्रियार्थोपादानमेवं नामशब्दस्यापि सत्वावृत्तिं स्वां त्यक्त्वा क्रियार्थोपादानं क्रियार्थ त्यक्त्वा सत्त्वार्थोपादानमिति। ताभ्यामेव च त्यागोपादानाभ्यां कुर्याजुहुयादित्येतयोरपि शब्दयोः सामान्य जातीय deg क / 2 °पक्ष्यणपरय क-ग। 3 सत्धेयनो क-ग। 4 युक्तौ क-ग। 50 वद् क / 6 °ब्दः ग /