________________ अपौरुषेयत्वविचारः ] न्यायागमानुसारिण्यलङ्कृतम् / 105 नेति चेत् / स्यान्मतम्-संसर्गाभेदभिन्नात् सामर्थ्याच्छब्दपृच्छार्थव्यवच्छेदो विशेपलिङ्गाद्भवति / यथाह संसर्गो विप्रयोगश्च साहचर्य विरोधिता।। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः // सामर्थ्यमौचिती देशः कालो व्यक्तिस्वरादयः / शब्दस्यार्थव्यवच्छेदे विशेषस्मृतिहेतवः // इति // तत्र यच्छब्दसन्निधिसंज्ञकं सामर्थ्य तयवच्छेदकारणमिहाप्यस्ति, तद्यथा-आसनश्रुताग्निहोत्रशब्दात् तच्चोदितकर्त्तव्यतैवात्र सम्बध्यते / तस्मान्न जुहोत्यर्थस्तत्त्वस्मकर्तृप्रत्ययकृत्सर्वदर्शने सत्यप्यग्निहोत्रं कुर्यादिति हवनविषयस्यैव करणस्योपादानात्। चेदित्याशङ्कायाम् / एवं चेन्मन्यसे तदपि न, आसन्नतरश्रुतजुहोत्यर्थत्यागात् / यथा आसन्नश्रुताग्निहोत्रसान्निध्यात् तदर्थोपादानं न्याय्यं मन्यसे ततोऽप्यासन्नतरश्रुतजुहोतिशब्दार्थोपादानं न्याय्यतरं किन्न मन्यसे / स चार्थस्त्यक्तस्त्वया। तदुपादानेपि.चाप्रसिद्धतादिदोषास्तदवस्थाः / स्वपदार्थं त्यक्त्वा पदान्तरार्थे कथं वर्तितेति चोक्तं अभ्युपेत्येत्यादि। पदान्तरार्थाभिधानं दोष उच्यते-परपदार्थविधानेऽपि च पदान्तरपरिश्रुतहोत्रमात्रवृत्तत्वात् / जुहुयादर्थमात्रमेवेति कुर्यादर्थोपादानमभेदकम् / पदान्तरेऽग्निहोत्रपदे परिश्रुतं परिगतं ज्ञानं किं तद्धोतमात्रं न तद्व्यतिरिक्तं अर्थान्तरं गम्यतेऽतो जुहुयादित्येतस्य शब्दस्य योऽर्थस्तन्मात्र एव वृत्तः कुर्याच्छन्दः / इतिशब्दो हेत्वर्थे / असाद्धेतोर्जुहुयाच्छब्दार्थमात्रत्वाद्वा कुर्यादित्यस्यार्थस्योपादानमभेदकम् / नास्ति भेदोऽस्येत्यभेदकमभिन्नार्थम्। कुतोऽभिन्नार्थन भवतीति चेद्धवनं कुयोदित्यस्माद्वाक्यार्थात् तस्मात् त एव दोषाः / स्यान्मतम्-मात्रग्रहणात् सिद्धिः, अग्निपदविशिष्टसमासत्वात् / न हि होममात्रमेव श्रूयते / किं तर्हि ? अग्नेरनावग्नये वा होत्रमग्निहोत्रं तत् कुर्यादिति भिन्नोऽर्थ इति / एतच्चायुक्तम् / तिनत्ययार्थैकीभूतप्रकृत्यर्थत्वात् / होत्रमात्रवृत्तत्वं सिद्धमेवेत्यर्थः। यत्र तिप्रत्ययार्थेनैकीभूतप्रकृत्यर्थमात्रं प्रकृत्यर्थमात्रवृत्तिर्वा दृष्टा। यथा प्रलम्बनेऽव्यागच्छतीति वैधम्र्येण कुम्भकारवत् काण्डलाववत् समासत्वात् कुम्भकारवदेव विशिष्टार्थत्वमिति चेत्, तदपि नोपपद्यतेऽग्निसमासत्वात् / न ह्यस्ति अग्निशब्दस्य होत्रशब्देन तिङ्प्रत्ययार्थसाकांक्षेण समासः। 'सुप्सुपा समर्थेन सह समस्यते' (पा०२।१।४) इति वचनात् तिङ् तेवास्ति / क्षारास्तीतपिवतादिषु समासदर्शनाददोष इति चेत् / न, परिगणितेभ्योऽन्यत्राभावात् / तिङन्तप्रतिरूपकनिपातेषूपात्तत्वाच्च तेषां 'अस्तिनास्तिदिष्टं 10 र्थस्त्यक्तस्तत् °क-ख / 2 deg ऽसौ क। 3 सभामावात् क-ख। 4 तेनास्ति ग। न.च.१४