________________ 104 नयचक्रम् / [ हवनक्रियात्यादि कर्तव्यतावाक्यतात्यागेन परिहारं मन्यते / पक्षान्तरसंश्रये सोपपत्तिके निर्दोषं च कतमत् पुनः पक्षान्तरम् ? इत्यत आह-किं तद्दग्निहोत्रं कुर्यादित्येतत्पक्षान्तरमाश्रीयते / उपपत्तिश्चात्राग्निहोत्रशब्दे जुहोतेर्धातोर्दर्शितार्थत्वात् कर्तृप्रत्ययार्थे च कृच्छ्रे दर्शितार्थत्वादयं जुहुयादिति हुधातुः लिट्प्रत्ययान्तः, स च लिट् कर्तरि विहितः 'कर्तरि कृच्छ्रेः कर्मणि चेति / कर्तृशब्दश्च कृप्रकृतिस्त्वजन्तः कर्तरि क्रियया निर्वर्तकेऽभिधेये कृतो लकाराश्च भवन्तीति / तथा कर्मणि विहितोऽपि कुल्लकारो वा कृत्सर्वं नातिवर्तते / भावे विहितस्तु क्रियामात्रार्थत्वात् कर्थे एव / किं करोतीति सर्वक्रियाविशेषेषु पचत्यादिषु विशेषणप्रश्नप्रदर्शनात् जुहुयादित्ययं कुर्यादर्थ एव / यथा भूयते देवदत्तेन, सुप्यते देवदत्तेनेत्येवमाद्यकर्मकेष्वचि खपिति भवतीति / अग्निहोत्रशब्देन पुनस्तद्विशेषभूतो जुहोतेरर्थोऽभिहित एव तस्मादग्निहोत्रं कुर्यादित्ययमर्थ इति / ___ अत्रोच्यते-एवमपि कर्तृप्रत्ययकृद्दर्शनेनेति परोक्तं प्रत्युच्चारयति / एवमिदानी कुर्यादग्निहोत्रमित्येतत्पक्षान्तरम् / होत्रशब्दोक्तहवनार्थता कर्तृप्रत्ययान्तकत्रर्थता च जुहोतेरित्येतत्त्वयोक्तम् , मया युक्त्या सहावधारितम् / तथापि जुहोत्यर्थस्य त्यागोऽर्थभेदश्च / जुहोत्यर्थत्यागस्तावत् कर्तृविशिष्टक्रियासामान्यमात्रवाचित्वाभ्युपगमात् / जुहोतेच क्रियाविशेषत्वात् / सामान्यविशेषयोश्चान्योऽन्यतो भिन्नत्वात् कुर्याच्छब्दार्थ जुहुयाच्छब्दो ब्रवीतीतिवचनात् होत्रशब्देन दर्शितार्थत्वाज्जुहोतेरनर्थक इति त्वयैव त्यक्तत्वात् / ततश्च जुहुयाच्छब्दोऽपिहोत्रशब्दार्थ, होत्रशब्दोऽपि जुहुयाच्छब्दार्थं ब्रवीतीति नामाख्यातयोः प्रत्येकं व्यर्थवृत्तित्वाद्भेदश्च / होत्रशब्दः क्रियावाची नामवाची च, तथा जुहुयाच्छब्दोऽपीति / एवं शब्दार्थसङ्करः प्रसिद्विविरोधश्च जायते / यथा पूर्वापरीभूतभावमाख्यातेनाचष्टे प्रेजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्यवसानभूतं सत्त्वं नामभिर्वापत्तिरिति जुहोत्यर्थत्यागभेदाभ्यां हेतुभ्यां जुहोत्यर्थत्यागभेदत्यागवत् सर्वधात्वर्थविशेषत्यागः / यथा जुहोतिः कर्तृप्रत्ययान्तस्तत्सर्वप्रकृत्यर्थवान् / एवं पचतिपठत्यादयः सर्वे धातवो धातुत्वात्तद्वाचिनः / तस्मात् सर्वधात्वर्थविशेषास्त्यक्ताः। विशेषशब्दस्य भेदार्थत्वान्नामाख्यातद्यर्थवृत्तित्वात् पूर्वोक्तकरीत्यर्थवद्भिन्नार्थता च, ततश्च सर्वधात्वर्थविशेपत्यागान त्यागापत्तिरपि / तस्य कृत्सर्वस्य सर्वधात्वर्थसामान्यभूतस्यापि त्याग आपद्यते / किं कारणम् ? विशेषाभावे निराश्रयस्य सामान्यस्याभावात् करोतीत्युक्ते किं करोति, जुहोति, पचति, पठतीत्यादि विशेषसंश्रयेण विना करोतेरर्थाभावात् / अपिशब्दात् सङ्करप्रसिद्धिविरोधपौनरुक्त्यदोषाश्च / आसन्नश्रुताऽग्निहोत्रकर्तव्यत्वा 1 कृते / 2 कृतः। 3 deg कृजर्थभाव क-ख /