________________ 103 अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / रनुवादश्च शेषः शेषी च / उत्सर्गोऽपवादश्चान्यतरस्याप्यर्थाप्रतीतेः / किं हवनक्रिया विशेषणमग्निहोत्रविशेषणं हवनं विशेष्यम् ? एवं विध्यनुवादप्रधानोपसर्जनो त्सर्गापवादशेषशेषाभावादिषु खपुष्पखरविषाणयोरिवायुक्तमिति। तुशब्द एवकाराथें / विशेषेण प्रोक्तवदेव विशेषणत्वादि न घटत इति विशिनष्टि / कथमशक्यमिति चेद्दर्शयति / यदि विशेष्येणैव विशेषणीयं हवनं कुर्यात्। तच्चाग्निहोत्रसंज्ञकमिति। हवनक्रिययाऽग्निहोत्रं विशेष्येत, अग्निहोत्रं वा हवनमिति / यदग्निहोत्रं तद्धवनं कर्मेत्यग्निहोत्रेण हवनं विशेष्येत / इतिः प्रदर्शने। इत्थं विशिष्येत यदि विशेषेण विशेष्यतया प्रयोजनमवश्यं तच्च नैवं शक्यमप्रसिद्धार्थत्वात् / यदप्युक्तम्-अनूद्याग्निहोत्रं हवनक्रिया विधीयते / हवनं वा अनूद्याग्निहोत्रं विधीयत इति / एतदुक्तं वाक्यभेदापत्तेरिति।अत आह-अनुवादविधिविषयत्वे वाक्यभेदापत्तेरिति / तत्रैकं ह्यनुवादकमेकं विधायकम् / तयोरन्यतरद्यथेष्टं तेऽस्तु, ततो भिन्नार्थत्वात् वाक्यभेदोऽनयोरापद्यते, यथा कुशलतरोऽनयोर्देवदत्तो ज्ञेय इति प्रसिद्धमर्थमनूय आनयनमित्यानयनं विधीयते। देवदत्तमानयेति देवदत्तानयनं वा विधाय विदुषोर्यः कुशलतरोऽनयोरित्यनुवादे प्रसिद्धार्थानुवादे विधिविषये द्वे वाक्ये / एकमेकस्यानुवादत्वेऽन्यस्य च विधित्वे वाक्यभेदापत्तिरतो नैपोऽपि व्याख्यानाद्वा शोभन इति। स्थान्मतम्-वाक्यभेदापत्त्यादिदोषाः सम्भवन्ति / क्रियाया एव विधेयत्वात् यथोक्तं नैतद्विचार्यते। अनत्वान्नात्त्वानिति (?) / किं तालब्धव्यो नालब्धव्य इति। तथा 'स्वभावसिद्धं द्रव्यं क्रिया चैव हि भाव्यत' इति तस्मादग्निविषया हवनक्रियैव विधीयतेऽतो दृष्टान्तवैषम्यं नास्ति / द्रव्यस्याविधेयप्रतिषेध्यत्वात् घट कुर्यात् मा कार्षीदिति। किं तर्हि ? घटक्रियां कुर्यादिति / तथा हवनं कुर्यादग्निहोत्रं कुर्यादिति हवनाग्निहोत्रं कुर्यादिति हवनाग्निहोत्रक्रिययोरतिदेशो न्याय्य इति / अनोच्यते-नापि घटादिकर्तव्यतायामित्येवमादि, यथा घटादि विषया कर्तव्यता मृदानयनमर्दनाभ्युपक्रमात्मिका लोके प्रसिद्धान तथा काचिदग्निहवनकर्तव्यता नाम प्रोक्षणबहिरास्तरणाज्यप्रक्षेपायुपक्रमात्मिका / मत्रपूर्वक्रिया क्रमवती प्रसिद्धा यर्थों कर्त्तव्यतयाऽतिदिश्येत / हवनाख्ययाग्निहोत्राख्यतामिहोत्राख्यया वा हवनाख्यताऽतिदिश्यतेति / ___ अथ पुनरित्यादि / अथेत्यधिकारान्तरापेक्षान्तरम्, अधिकारान्तरमनन्तरोक्तविधिना न निर्वहति हवनं कुर्याद् जुहुयादिति / हवनविधावग्निहोत्रानुवाद इत्यसिन्नर्थ अप्रसिद्धत्वाद्विशेषणविशेष्यताद्यभावाद्वाक्यभेदापत्तेश्च द्रव्यस्य क्रियया वा विधाने निर्वोढुमशक्ये परेणोच्येत-नैव हवनं कुर्यादिती कार्यस्वे ग / कार्थस्ने ख / 2 रिति देश्यो ग। 3 ते क-स। 4 यया कर्तव्यता निर्दिश्येतक-स।