________________ नयचक्रम् / . [हवनक्रियापदान्तरकर्तव्यतायां तावदित्यादि / तावच्छब्दः क्रमार्थे, यत्तावदुक्तं पदान्तरकर्तव्यतायां कथं प्रवर्ततेऽन्यत्र परिहारोऽस्मिन् परिहारेऽभिहितौ पौनरुक्त्यप्रसिद्धिदोषावपि तदेव तदित्येतत्पक्षगतौ परिहतावेवेत्यभिप्रायः। तत्र हवनपदान्तरकर्तव्यतामपेक्षते / केन न्यायेन ? वाक्यन्यायेन / को वाक्यन्यायः? भेदसंसर्गाभ्यां परस्पराकाङ्क्षासम्बन्धस्तयाऽऽकासया पदान्तराथै वर्तते पदम् / यथा सब्रह्मचारिणा सहाधीत इत्युक्ते येन समानो ब्रह्मचारी तेन सब्रह्मचारिणा, य एवाधीते तेनैव समान इत्याकाङ्क्षा भवति / सामर्थ्यान्नान्येन केनचित्सामर्थ्यमपेक्षेतेत्यर्थः / ननु यथा पदार्थे परिच्छिन्ने घट इति न पदार्थान्तरमपेक्षते / पदेन सा पुनरपेक्षा घटवत् घटशब्दवदभेदनिर्देशाद् घटार्थत्वेन घटः शब्द उक्तः घटशब्दस्यार्थवत्त्ववत् अग्निहोत्रशब्दोऽसर्वस्याप्यर्थवत्त्वमपेक्षतेऽन्यथाग्निहोत्रशब्दोऽनर्थका स्यात् , तन्मा भूत् तदानर्थक्यमित्याकामयते / न चैदेवं ततो दोष इति / यदि तु निरपेक्षोऽग्निहोत्रशब्दो हवनप्रकृत्यर्थमात्र एव वर्तते ततः को दोषः ? ततोऽग्निहोत्रशब्दः प्रमादाधीन आपद्यते / अग्निशब्दस्य च न पृथक्कश्चिदर्थो हवनप्रकृत्यर्थमात्रत्वात् ततश्च दशदाडिमादिश्लोकावयववत् प्रमादाधीन आपद्यते / निराकाङ्क्षत्वान्न पुनरेवमिष्यते / तत एवं वचनव्यक्तिर्भवति / अग्निहोत्राख्यं हवनं कुर्यादग्निहोत्रसंज्ञाक्रियाकाङ्क्षा हवनं कुर्यादिति। किमिव ? घटवत् यथा घटं कुर्यादित्युक्ते सामान्यचोदनायाः प्लवनाद्विशेषाभिसम्बन्धमन्तरेण नैरर्थक्यं स्यात् तन्मा भूदिति घटं कुर्याद् घटक्रियां कुर्यादिति वचनव्यक्तिस्तथाग्निहोत्रं जुहुयादिति / ___ आचार्य आह-एतदुक्तं दृष्टान्तवैषम्यात्। अर्थभेदासिद्धेरभ्युपेत्याप्याकाशितमर्थभेदमग्निहोत्रहवनयोरप्रसिद्धेः, दृष्टान्तेन प्रसिद्धेन घटेन वैषम्यमिति। तद्दर्शयति-नहि किञ्चिदग्निहोत्रं नाम हवनं घटवत् प्रसिद्धं तदनूद्योच्येत। यथा घटवस्तु लोके प्रसिद्धमभूत् यमनूद्य तद्विषयं कर्म कुर्याद् घटं कुर्यादित्युच्यते / न तादृगनुवदनमात्रोपपन्नमप्रसिद्धत्वादग्निहोत्रहवनयो प्याकाङ्क्षात्मकृतमैक्यमस्तीति तदर्शयति / न हि धर्येण यदग्निहोत्रं संज्ञिकं हवनं तत् कुयादित्यग्निहोत्रहवनयोरैक्येन प्रसिद्धौ सत्यां तद्विषयं करणमनुविधीयेत / नापि हवनं यत् कुर्यादिति हवनक्रियामनूद्य तदग्निहोत्राख्यमित्यैक्येन विधानं युज्येत, परेणाग्निहोत्रस्य हवनस्य वा अविहितत्वाल्लोके शास्त्रान्तरेषु वा प्रमाणान्तरेण वाऽप्रसिद्धत्वादग्निहोत्रहवनक्रिययोः कथमनूद्य विधानं घटते ? / अत एव तूभयमप्यशक्यम् / अत इत्येतस्मादन्तरोक्ताद्धेतोवाक्यान्तरेण प्रमाणान्तरेण वा प्रतीतत्वात् / उभयमप्यशक्यं विशेषणं विशेष्यं च प्रधानमुपसर्जनं च विधि 10 तिहितो ग / २०तं चेवेग।३० च्यायेन ग। 40 यत् ग /