________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 101 कर्तव्यतेति / या कर्तव्यता प्रतिपत्तिरग्निहोत्रादिविषया सा प्रतिपत्तित्वाल्लौकिककतथ्यताद्यर्थतयानुसृतेरेव / प्रत्येकं पतनं प्रतिपत्तिः, स्याद् द्विविधा-आध्यात्मिकी बाह्या च / तत्राध्यात्मिकीदं कर्तव्यमिदं न कर्तव्यमित्यादिका बुद्धिरेव / बाह्या तु द्विपदचतुःपदधनधान्याद्यर्थमयी क्रिया। सा द्विविधापि लोकप्रसिद्धमेवार्थमनुसृत्य भवितुमर्हति नाप्रसिद्धं, तस्मादग्निहोत्रादिप्रतिपत्तिरपि लोकतत्वानुसृतेरेव नान्यथा। किंविषया सा स्यात् ? नालिकेरद्वीपजातवृद्धस्य धेनुप्रतिपत्त्यभाववदिति / तद्दर्शयति-कर्तव्यविधानानन्तरं चेति, कर्तव्यतावसरः। लौकिककर्तव्यताद्यर्थतत्त्वानुसृतेरेवेति वर्तते प्रसिद्धकर्तव्यप्रतिपत्यनन्तरं प्रसिद्धेतिकर्तव्यताप्रतिपत्त्यवसर इति न्यायस्तदुभयमलौकिकत्वादग्निहोत्रसामान्यस्याग्निष्टोमादिविशेषस्य द्रव्यमत्रदेवताग्नियमाद्यात्मनश्चाप्रसिद्धरयुक्तम् / किं चान्यत्-न्यायासंभवं च तव्यावर्तनार्थलोकप्रसिद्धकर्तव्यतेतिकर्तव्यतावैधयं दर्शयन्नाह-यथा घटादिकर्तव्यतायां घटं कुर्विति, ततः पुनरितिकर्तव्यताक्रम एवमिति प्रकारनिर्देशं दर्शयति / मृत्पिण्डं चक्रमूर्धनि संस्थाप्य दण्डेन भ्रमयित्वा द्वाभ्यां पाणिभ्यां शिवकाद्याकारविशेषान् क्रमेण निर्वर्तयेरिति प्रसिद्धकर्तव्यताविधानोत्तरकालं प्रसिद्धेतिकर्तव्यताविधानं घटादिविषयमुपपन्नं प्रसिद्धार्थत्वान्न त्वग्निहोत्रकर्तव्यतायाः पशुवधादीतिकर्तव्यतायाश्च प्रसिद्धिरप्रसिद्धत्वादग्निहोत्रशब्दस्य / काञ्चिदपीति / कर्तव्यताकर्तव्यतां वा वक्तुमशक्यत्वादत आह-ननु घटवदग्निहोत्रशब्दः काञ्चिदपि कर्तव्यतां ब्रवीति, अपिशब्दादितिकर्तव्यतामपीति / सान्मतम्-जुहुयादित्ययं तर्हि ब्रवीति'हु दानादनयोः' इत्यस्याः प्रकृतेः क्रियावाचिन्याः विध्यर्थलिट्प्रत्ययान्तत्वात्तच्च हवनमग्निविषयमतस्तत्कर्तव्यतां जुहुयादित्येष शब्दो ब्रवीति / अत्रोच्यते-एवमपि तदवस्थं सत्यमयं ब्रवीति तत्कर्तव्यतां किन्तु हवनमात्रस्य तस्याप्यप्रसिद्धस्यैव। नन्वग्निहोत्रे कर्तव्यतां जुहुयादित्याख्यातस्य पूर्वापरीभूतानिष्पन्नावयवक्रियार्थवाचित्वात् / नाम्नां पिण्डितनिष्पन्नार्थवाचित्वात् / किं कारणम् ? विविक्तार्थवाचित्वाभिमतानां शब्दानां पदान्तराथोवृत्तः। तत आहजुहोतेर्हि धातोरयं प्रत्यय उत्पन्नः स कर्तव्यतां हित्वा पदान्तरकर्तव्यतायां कथं प्रवर्तेत ? / 'प्रत्ययग्रहणं प्रकृतिप्रत्ययौ प्रत्ययासहत्वात्' इति परिभाषितत्वादाप्तः। स्यान्मतम्-अथ तदेव तत् , यदेवाग्निहोत्रं तदेव हवनम् / यदेव हवनं तदेवाग्निहोत्रमिति। एतत्तावदनयोरैकार्थ्यं प्रसिद्धिविरुद्धं नामाख्यातयोभिन्नार्थत्वप्रसिद्धेरभ्युपेत्याप्येकार्थवाचित्वमनयोः पौनरुक्त्यपरिहारार्थ लाघवार्थं च जुहुयादित्येवास्तु, किमग्निहोत्रमित्यनेन? / इतराप्रसिद्धिपौनरुक्त्यपरिहारार्थमाह 1deg ममी क-ख / 2 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः' इति पात० म० भाष्ये /