________________ 100 नयचक्रम् / [हवनक्रियाचोपदेशस्त्वन्मतेनैवैवं नावतिष्ठते / लोकतत्त्वान्वेषणात्मकत्वात् / स्थान्मतम्-पदवाक्यप्रमाणानामपि सामान्यविशेषादिघटादिजगत्तत्त्वविचारवद् व्यवस्थैव प्रमापानामपि प्रमाणान्तराधिगम्यत्वेऽनवस्थादोषप्रसङ्गादिति / ___ अत्रोच्यते-प्रमाणानवस्था तावन्नास्ति चन्द्रार्कमणिप्रदीपादिवत् स्वपरावभासित्वात् प्रमाणानाम् / पदादीनामभ्युपगम्यापि त्वन्मतेऽनवस्थामाह-तस्यापि त्वनवस्थाने जगत्तत्त्वस्य प्रमाणविचारस्य वा क्रियाविधाय्यपि शास्त्रं नावतिष्ठेत / तस्यापि लोकतत्त्वान्वेषणात्मकत्वादनतिवृत्तेरप्रमाणात् / इतिशब्दो हेत्वर्थे / अयं हेतुः क्रियाविधायिशास्त्रानवस्थानात् इत्यतस्तत्प्राप्य पुण्याद्यभावः क्रियाविधायिशास्त्रोपदिष्टक्रियातिव्यङ्गयाऽपूर्वाभाव इत्यर्थः। कतमं पुनस्तक्रियाविधायि शास्त्रमुच्यते / यथा'अग्निहोत्रं जुहुयात् वर्गकाम' इति एतच्छास्त्रम् / इदं तु पुनः किं विधिरनुवादोऽर्थवादः ? / उच्यते-विधिः, कथमुपलक्ष्यते विधिरिति ? अप्रसिद्धार्थविषयविधायितया लक्ष्यते / अत्राप्रसिद्धमग्निसम्प्रदानं हवनं विधीयते स्वर्गस्य सुखसंज्ञस्य तत्प्राप्याश्रयस्य विशिष्टदेशाद्यात्मकस्य वा तदभिलाषस्य च कर्तरि सिद्धत्वात् खर्गावाप्तावुपायोऽग्निहवनमित्युपायस्यापूर्वत्वात् / कथं पुनस्तक्रियाभिव्यङ्गयाऽपूर्वाभावः? त्वन्मतादेवोक्तवत् / इतश्च तर्कोऽस्थापितलोकतत्त्वाज्ञानानपेक्षत्वात्तस्य विधेरसंव्यवहार्यत्वात् तद्विहितक्रियाफलसम्बन्धाभावः / दृष्टान्त आरोग्यार्थिनि डित्थभक्षणोक्तिवत् / यथा आरोग्यार्थिनि पुंसि डित्थं भक्षयेत्युक्तिस्तक्रिया च विफले अप्रसिद्धत्वादेवं त्वदुक्ते क्रिये अशक्यप्राप्त्यर्थे चेत्यशक्यप्रात्यादिमत्सांख्यादिविवेकयनतुल्यत्वात् तवापि / अथोत्पतेत्यादि। ___ अत्राह-मा मंस्थाः सांख्यादियत्नतुल्यत्वमेतस्य, किं कारणम् ? वैधात् / तद्यथा-कर्तव्यतां विधायेतिकर्तव्यताविधानात् तत्राग्निहोत्रं जुहुयादिति कर्तव्यतयाऽग्निहोत्रं विधीयते। ततः पुनःपुनरुत्तरत्र विशेषेतिकर्तव्यता विधीयते तदग्निहोत्रमेवमेवं च कर्तव्यमिति / यद्यथा-'अनिष्टोमादिसंस्थाविशेषैर्द्रव्यगुणदेवताकर्तृकर्मकालादेशादिविशेषैश्च / वसन्ते ब्राह्मणो यजेत, ग्रीष्मे राजन्यः, शरदि वा यजेत वैश्यः, होलाको प्राज्ञैरुद्वषमयज्ञ उदीच्यैर्वायव्यैः श्वेतमालभेत भृतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव खेन भागधेयेनोपधावति स एवासि भूमिं निधत्ते" इत्यादि त्वया प्रतिपत्स्यत इति शिष्यमनुशास्ति। तत उत्तरकालमेवंप्रकारमेवाग्निहोत्रं नाम कर्म भवति विशेषविधानार्थप्रतिपत्तिबलेन सुसिद्धं भविष्यति / तस्य शिष्यता सांख्यादिविवेकप्रयत्नवैलक्ष्यत्वेन इतरार्थाविचारेण घटपरमाण्वादिकार्याकारणसामान्याविशेषादिस्वरूपाविचारेणेति / अत्रोच्यते-ननु चैवमपीत्यादि / नन्वित्यनुज्ञापने / 1 तैत्तरीयसंहितायाम्। 2 अथोते deg क खः। अथो ने ग। 3 होत्वाको क-ख /