________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / वेदवचनयोरन्यथानुपपत्तेः / पुरुषमन्तरेण वेदनं वेदः ज्ञानमित्यर्थः / तेन च ज्ञानस्य वचनं परप्रत्यायनं च तदुभयप्रत्ययनं स्वप्रत्यायनं च नोपपद्यते / तयोः पुरुषसमवायित्वात् / उक्तं च रूपविबन्धः सम्बद्धः प्रामाण्यं प्रत्ययः क्रिया। शब्दस्य पुरुषाधीना ज्ञानं वा नान्यदात्मनः // इति // औषधोपदेशाज्ञानवदग्निहोत्राद्युपदेशाज्ञानम् / तज्ज्ञानवत्तदपि वा प्रमाणान्तरगम्यमिति / एवं तावत् क्रियोपदेशमभ्युपगम्य दोष उक्तः। अनभ्युपगमस्यापि उपदेशाप्रसिद्धिरपि चैवं भवतः,त्वन्मतेनैवेति वाक्यशेषः। सर्वस्योपदेशस्य सांख्याधुपदेशवल्लोकतत्त्वान्वेषणादृते सम्भवाभावात् / उपदेशो व्याख्या। असौ च व्याख्या पदविषया वाक्यविषया प्रमाणविषया तद्वस्तुविषया वा वेदव्याकरणसाङ्ख्यादिशास्त्रविकल्पिता यथास्वं प्रक्रियाभिः, तत्र यथा सांख्यादिप्रक्रियादिर्वस्तुतत्त्वं घटादेर्लोकतत्त्वान्वेषणपरया व्याख्यया विना नाधिगम्यते / इतस्तथा व्याख्यायते / एवमग्निहोत्रादि संज्ञासंज्ञिसम्बन्धव्युत्पादनेन व्याख्यायते / प्रकृतिप्रत्ययादिविभागेन पदविषयं वाक्यविषयं प्रमाणविषयं च / प्रत्यक्षानुमानागमवाधाभ्युच्चयविकल्पाङ्गाङ्गिभावविकल्पादिलोकतत्त्वान्वेषणमन्तरेण नांधिगन्तुं शक्यमित्युपदेशस्तत्त्वान्वेषणपरः सर्वः प्रवर्तते / तत्र यथा सांख्याधुपदिष्टार्थेष्वशक्यप्राप्ति रुपदेशानर्थक्यं च / तथा वेदव्याकरणमीमांसाधुपदेशानामपीत्युपदेशाप्रसिद्धिः। अथ लोकतत्त्वान्वेषणपराणां तेषां उपदेशानां शक्यप्राप्त्यर्थोपदेशसाफल्ये शक्ये ते / कः पराभ्युपगमे प्रद्वेषः / इहापि च यथा लोकत एव प्रत्यक्षानुमानगम्यघटपटादितत्त्वपरिच्छेदः शक्यते कर्तुम् , एवं पदवाक्यप्रमाणपरिच्छेदोऽपि शक्यो घटादिपदात् शब्दार्थप्रत्ययविषयस्य लोकत एव वर्णानुपूयादिनियतवाच्यवाचकप्रत्ययाव्यभिचारस्य प्रसिद्धेः / एवं वाक्ये प्रमाणे च योज्यम् / उक्तं च प्रमाणानि प्रवर्तन्ते प्रमेयैः सर्ववादिनाम् / संज्ञाभिप्रायभेदात्तु विवदन्ते तपस्विनः // इति / तसादुपदेशानां त्वन्मतेनैव सर्वेषामप्रामाण्यसिद्धिोकतत्त्वान्वेषणपरत्वे सत्यशक्यप्राप्त्यफलत्वेनाभ्युपगतत्वात् सांख्यादिशास्त्रकारोपदेशवदतो दृष्टादृष्टार्थक्रियोपदेशे पदवाक्यप्रमाणविषयव्याख्यावैयर्थ्यप्रसङ्गान वेदशास्त्रोपदेशसिद्धिर्लोकतत्त्वान्वेषणपरत्वानतिवृत्तेस्तर्कशास्त्रवाच्यलोकतत्त्वविचारविज्ञानसाफल्यं वा / उपदेशाप्रसिद्धौ परीक्षकत्वहानिः / पदवाक्यप्रमाणविषयाव्यभिचारज्ञानार्थत्वात् परीक्षायाः, परीक्षेव चोपदेशः परीक्षाव्याख्ययोरनर्थान्तरत्वात् / स १०णानधि °ग। 2 वाक्ये क-ग।