________________ 98 नयचक्रम् / [ हवनक्रियापदेशन्याय्यत्वाभ्युपगमोऽपि चैवं विघटेत / विघटतादिति कथं निष्ठुरमुच्यते, विघटेतेति न सम्भावनयोच्यते / दाक्षिण्यलोकज्ञानाभ्यां को हेतुर्विघटते / संसेव्यवि. षयखतत्त्वानुपातिपरिणामविज्ञानविरहितत्वात्। समित्येकीभावे / आत्मसाद्भावेन सेव्यमानस्य विषयस्य तत्त्वमाहारादेःशब्दस्पर्शरसरूपगन्धात्मकस्य खरूपं 'वातादिप्रकोपशमोऽपचयप्रलयावहः / नागरातिविषामुस्ताक्काथः स्यादामपाचनः' ॥इति / तत्तत्वानुपातिपरिणामविज्ञानं तदनुपतितुं शीलमस्येति / किमुक्तं भवति? आसेव्यमानस्य वस्तुनस्तक्रियात एव स्वरूपानुपातेन विपाकः परिणामः / तद्विज्ञानविरहितत्वम् / स इत्थं विपाकः सुखाय दुःखाय वेत्येतद्विज्ञानं हिताहितप्राप्तिपरिहारार्थम् / ननु भवतां नास्त्येवातस्तद्विरहितत्वात् क्रियोपदेशोऽपि अग्निहोत्रं जुहुयात् स्वर्गकामः,तन्दुलान् पचेझोक्तुकामः' इत्यादिदृष्टार्थो न घटते / अज्ञातवेविध्यवस्तुतत्त्वपरिणामवान् अवैद्यौषधोपदेशवत् / यथा कस्यचिदविज्ञातरसवीर्यविपाकप्रभावद्रव्यगुणविशेषभागाभागसंयोगस्य देशकालातुरप्रकृतिसाम्याग्निबलाबलवतो रोगसमुत्थाननिदानादिलक्षणानभिज्ञस्यौषधोपदेशो न घटते। तथा 'अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्याधुपदेशः। अथवा हिताहितप्राप्तिपरिहारार्थत्वात् सर्वोपदेशानां तदभावात् क्रीडितमेवास्त्वितीदं बालकादिग्रहणवत्, तज्ज्ञानविरहितस्योपदेशश्रवणग्रहणधारणतर्कमानुषनोद्यमर्थानुबन्ध्येव स्यादितीदमर्थप्रदर्शनार्थ द्वितीयमुदाहरणार्थम् , उपदेशादेव न ज्ञानयोग इति चेत् ___ स्थान्मतम्-पुरुषस्यातीन्द्रियार्थदर्शनशून्यत्वात् / स्वर्गापूर्वकर्मसम्बन्धज्ञाने पूर्वविज्ञानकारणाभावाद्वन्ध्याया दौहित्रसरणवत् द्रव्यगुणरसवीर्यविपाकादिज्ञानसानुमानं पूर्वविज्ञानकारणं संभाव्येत, तसादुपदेशादेवाग्निहोत्रकर्मस्वर्गफलाभिसम्बन्धादि ज्ञानमित्येतच्चायुक्तमुभयथापि पौरुषेयत्वाद् दृष्टादृष्टार्थत्वेनोपदेशज्ञानस्यापि पौरुषेयत्वात् / ज्ञानतो वचनतश्च पुरुषाधीनत्वादिति वा यथा त्वमतीन्द्रियेष्वथेषु पूर्वविज्ञानकारणाभावं मन्यसे पुरुषस्य पुरुषज्ञानवचनानां तद्विषयाणां चाप्रामाण्यं रागादियोगात,तथाऽसर्वज्ञोपदेशस्योपदिष्टज्ञानस्य श्रोतृज्ञानवचनयोश्च ज्ञानत्ववचनत्वाभ्यां पौरुषेयत्वानतिवृत्तेर्भारतरामायणादिवदप्रामाण्यम् / अग्निहोत्रायुपदेशस्यातीन्द्रियार्थस्य प्रामाण्यवत् सांख्याद्यतीन्द्रियार्थोपदेशप्रामाण्यं वा / वानरमूलिकादिपरिज्ञानवत्तस्य तद्विषयं तत्तद् ज्ञानं स्यान्न तु सर्वोषधादिविषयैकपुरुषज्ञानमतो वैद्यकादिष्वपि पूर्वज्ञानकारणाभावः तद्विषयैकपुरुषविज्ञानवदतीन्द्रियग्राह्यसर्वपदार्थविषयकपुरुषविज्ञानाभ्युपगमो वावश्यंभावी / किं कारणम् ? , वेव्या ग / अज्ञानवैभव्य क-ख / 2 ज्ञानवतो क-ख / 3 स्वासनिक /