________________ द्रव्यार्थिकनयप्रथमभेदः ] न्यायागमानुसारिण्यलङ्कृतम् / अथ क्रियावादः। अयमपि तु विधिवृत्त्यैकान्तोऽपि प्रतिषेधादयुक्त इति कः पुनः सम्बन्धः / स्वविषयसङ्घातनेनार्थानां भावानात्मभिर्विधिनियमवृत्तिभिरनेकान्तविदितप्रत्येकतत्ताभिः समधिगम्याजैनसत्यत्वसाधनवृत्तौ विवक्षितद्वादशविकल्पविशेषेणैकैव वृत्तिरधिकृतेत्यनन्तरोक्ताया विधिवृत्तेरपि प्रत्यववृत्त्या मिथ्यादृष्टित्वादयमपि तु विधिवृत्त्येकान्तस्त्याज्यः।कस्मात्? अयुक्तत्वात् / अयुक्तत्वं विप्रतिषेधात् / विरुद्धः प्रतिषेधो विप्रतिषेधः। सर्वमुक्तं मृषेति प्रतिषेधवत्। अपिशब्दात् सामान्यविशेषोभयवादैकान्तः प्रथमनयदूषितोऽनुमत इत्ययमभिसम्बन्धः / कथं विप्रतिषेध इति चेदुच्यते / यदुक्तं त्वया 'सर्वमज्ञानानुविद्धमेव ज्ञानं / न च ज्ञानाज्ञानयोः कश्चिद्विशेषोऽस्ति / संशयविपर्ययानध्यवसायनिर्णयानामवबोधैकार्थत्वान्न लोकतत्त्वं ज्ञातुं शक्यम् / विफलश्च विवेकयत्नः शास्त्रेषु' इति / तद्यदि लोकतत्त्वमज्ञेयमेव।सर्वशास्त्रविहितलोकतत्त्वव्यावर्तनं तप्रत्ययम्, एवमशक्यप्राप्त्यफलत्वाभ्यां प्रतिषेध्यस्वरूपज्ञानविषयत्याच किं त्वयैवेदं विदित्वाऽविदित्वा वा सामान्यविशेषौ स्वविषयौ परविषयौ वा स्यातामित्यादि लोकतचं शास्त्रान्तरेषु कल्पितं दृषितम् / विदित्वा चेत् , न तर्हि तन्मतं न विदितम् , अथाविदित्वा ततः कथं दूषितमित्युभयथापि न युज्यते प्रतिपेधो विरुद्धत्वात्, प्रतिषिध्यते प्रतिषेध्यं च न ज्ञायत इति हास्यमेतत् / स्यान्मतम् प्रतिषेध्यं ज्ञायते तैस्तस्य वस्तुनः सत्त्वादिगुणत्रयात्मकक्षणतद्रूपद्रव्यादिषट्पदार्थात्मकादितया बहुधा कल्पितस्यानुपपत्तेरिति, एतदपि विप्रतिषिद्धं तेषामपि मतानां लोकतत्त्वान्तःपातिनां मिथ्याविधिकत्वं ज्ञातमज्ञातं वा स्यात् इति तुल्यविकल्पत्वात् ज्ञाताज्ञातत्वयोश्च तदोषाविमोक्षात् सामान्यं स्वविषयं परविषयं चेत्थमित्थं च न युज्यते, तथा विशेष इति प्रपञ्चितत्वात् / अज्ञातं चेत्तर्हि सर्वमप्रत्ययत्वाच्च प्रतिषेध इत्युक्तम् / ज्ञातं चेत् कथं ज्ञातुमशक्यं लोकतत्त्वमित्यप्रत्ययमेव / स्वयमसमीक्षितवाच्यवाचकसम्बन्धत्वात् , तेन च स उन्मत्तवदेव तावदशक्यं प्राप्तुं लोकतत्त्वमित्युक्तं विप्रतिषेधेऽप्युक्तमनर्थको विवेकयत्नः शास्त्रेष्विति तत्रापि विप्रतिषेधात् / यद्यप्युक्तमनर्थको विवेकयत्नः शास्त्रेष्विति तत्रापि विप्रतिषेधात्तु तज्ज्ञानमफलमेव किमिति शास्त्रविहितार्थप्रतिषेधप्रयासः ? / शास्त्रविहितार्थज्ञानं तत्प्रतिषेधोपायज्ञानं चाँवधार्य किं सफलमफलम् ? / यद्यफलं विज्ञानं शास्त्रविहितार्थान् प्रतिषेधित्सतः प्रयासोऽप्यफल एव ज्ञातत्वात् पूर्ववत् / अथ सफलमफलमेव लोकतत्त्वज्ञानमिति व्याहन्यते, अतः 'को वा एतद्वेद / किं वानेन ज्ञातेने'त्येतदयुक्तमुक्तम्, विप्रतिषेधात् / यदप्युक्तम् 'वस्तुतत्त्वाशक्यप्राप्तेः क्रियाया एवोपदेशो न्याय्यस्तत्पूर्वकत्वात् सुखावाप्ने रिति।अत्रोच्यते-क्रियो १क इत्येतं क ख।२ विरक्तत्वात् प्रतिषिध्यतोऽप्रतिषेधः चेत् क-ग। च वधार्थ क-ग। न. च, 13