________________ 96 नयचक्रम् / [द्रव्यार्थिकप्रथमभेदे ज्ञानवादः] खकुसुमवदिति गतार्थम् / अभिप्रायार्थः / स तु मन्यते लोकैकान्तसाङ्ख्यादिपरिकल्पितमवस्त्विति / व्यतिरेके घटवदिति / यद्वस्तु तल्लौकिकमेव यथा घटः। कार्य कारणं वा सामान्यं वा विशेषो वा यो वा स वास्तु यथा लोकप्रसिद्धिः पृथुबुध्नादिप्रागुक्तसामान्यविशेषभवनात्स च लौकिक इति / व्यतिरेके वैधयें सर्वनयानां जिनप्रवचनस्यैव निबन्धनत्वात्किमस्य निबन्धनमिति चेत् / उच्यते-निबन्धनं चास्य इति, आया भंते ! नाणे अन्नाणे ? इति स्वामी गौतमस्वामिना पृष्टो व्याकरोति-गोयमा! नाणे नियमा / अतो ज्ञानं नियमादात्मा ज्ञानस्यात्मव्यतिरेके वृत्यदर्शनात् / 'आया पुण सिय नाणे सिअ अन्नाणे? / आत्मा पुनः स्यात् ज्ञानं स्थादज्ञानम् / अज्ञानमप्यसौ ज्ञानावरणीयकर्मवशीकृतत्वात् संशयविपर्ययानध्यवसायबाहुल्यादित्यस्मात्सूत्रादेतसिन्मिथ्यादर्शननिर्गतमज्ञानोतेविरोधसमाधिमवददिति / विधिभङ्गारः प्रथमो द्रव्यार्थभेदः समाप्तः॥