________________ भेदे ज्ञानवादः ] न्यायागमानुसारिण्यलङ्कृतम् / शब्दानामप्यर्थेस्तत्समैरेव भवितव्यं, न हि गमनागमनगर्जनादिष्वर्थव्यवस्था विशेषरूपेति कश्चिदस्त्यर्थ इत्येतावत् प्रतिपत्तव्यं तस्मिन्नेव नयभङ्गे / सर्वाणि च पदानि वाक्यार्थः। तद् यथा-देवदत्त ! गामभ्याज शुक्लां दण्डेनेत्यत्र परस्पराविवेकेन सङ्कीर्णरूपाणि पदान्येकार्थानि / अन्वयव्यतिरेकाभ्यामनुगम्यमानं सम्पिण्डितमिवार्थ ब्रूयुन प्राग्भूतं तस्मात् सर्वाणि पदानि वाक्यार्थः / पदान्येव वा वाक्यार्थः / नैकैकं न तव्यतिरिक्तं यथोक्तमथैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागः स्यादिति / नतु यथान्यैः कल्प्यतेऽन्यथा / आख्यातशब्दः सङ्घातो जातिः सङ्घातवर्तिनी / एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंवृतिः॥ पदमाद्यं पृथक् सर्वे पदं सापेक्षमित्यपि / वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् // इति // लौकिकत्वादशक्यप्राप्त्यफलत्वाभ्यामेव / व पुनरयं नयेऽन्तर्भाव्यते ? / किं द्रव्यनयभेदे पर्यायनयभेदे ? उच्यते-व्यवहारदेशत्वाच्चास्य द्रव्यार्थतो लौकिकसम उपचारः 'प्रायो विस्तृतार्थो व्यवहार' इति वचनात् / तस्य द्रव्यार्थभेदाल्लोकव्यवहारविषयो हि व्यवहारस्तदेकदेशविषयो विधिनयस्तस्माद्रव्यार्थभेदः। यथा दव्वट्ठियणयपगई सुद्धा संगहपरूवणाविसओ। पडिरूवे पुण वयणत्थनिच्छओ तस्स ववहारो॥ -सन्मति० का० 1, गा० 4. तस्य शब्दार्थव्युत्पत्तिदर्शनार्थमाह-द्रव्यशब्द इति / द्रोरवयवो द्रव्यमिति व्युत्पादितत्वात् / अथ द्रुः कः ? / 'दु द्रु गतौ' तत्तुल्यार्थमव्युत्पन्नं प्रातिपदिकं 'बुद्रुभ्यां म:' (पा.५।२।१०८) इति निपातितत्वात् / तस्यार्थो दुर्गतिर्यात्रा व्यवहारः लोकस्येति / तस्या यात्राया अवयव एकदेश इत्यर्थकथनात् स एकदेशः क इति चेदुच्यते-एकदेशोऽसमस्तवृत्तिरन्यथावृत्तित्वात् / समस्तलोकव्यवहारविपरीतवृत्तित्वान्मिथ्यादृष्टिरित्यर्थः / सा पुनरस्या विधिवृत्तेरेकदेशवृत्तिता कुतः परिच्छिद्यत? इति चेल्लोकत एव परिच्छिद्यत इत्यर्थः / यस्माल्लोके तदेकदेशवृत्तिता मृद्घटादिसामान्यविशेषत्वद्रव्यत्वानां मृत्सामान्यं घटो विशेषः मृदः सामान्यं द्रव्यत्वं, घटो विशेषः। छिद्रबुध्नखण्डौष्टसम्पूर्णरक्तकृष्णतादिः सर्व एवैष परित्याज्योऽर्थकलापः समस्तवृत्तौ नयानां यथा स्वप्रमाणवशाद्यवस्थाप्यस्तस्या ज्ञानानुविद्धत्वैकान्ताद्वक्ष्यमाणदोषसम्बन्धाच लौकिकस्याप्यन्या युक्तिः। इतिः परिसमाप्तौ / विधिनयशतभेदे दिगिति / तस्मादन्यभवस्तु अलौकिकत्वात् 1 दृष्टव्यं घटविशेषः ग।