________________ नयचक्रम्। [द्रव्यार्थिकप्रथमयति स्वयमेव, तथा सुप्तादीनां चलनकण्डूयनस्फुरणादिक्रियाः कुर्वतामसञ्चेतयमानानामेव ताः क्रिया दृश्यन्ते सुप्तमत्तमूछितगर्भाः / सुप्तादयस्तथान्यमनसामव्यक्तचलनकण्डूयनमशकदंशस्पर्शसंवेदनं गन्धादिज्ञानं सुप्तादीनां चाम्लद्रव्यास्वादनमसश्चेतितं रसानास्वादनमित्यर्थः / आदिग्रहणात् क्षुतजृम्भितकाशितादयः / यथैताः क्रिया असञ्चेतितास्तथा स्वसंवेदनमपि / इत्थं कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेः / कल्पितस्तावत् कल्पितत्वादेव तथाभूतो न भवति प्रत्ययः / अकल्पितोऽपीत्थमुक्तविधिना नोपपद्यते। तथाभूतः प्रत्ययः शुद्ध इत्यर्थः / तस्मात् कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेरज्ञानानुविद्धमेव सर्वं ज्ञानमिति परिच्छेदार्थश्च प्रमाणव्यापारः, प्रमाणं हि व्याप्रियमाणं यथार्थपरिच्छेदार्थमिष्यते / नचेत्थं तत्परिच्छेदोऽस्तीति वैधयं दर्शयति / स्यान्मतम्-अज्ञानप्रतिबद्धमित्यज्ञानशब्दोचारणादेव ज्ञानाभ्युपगमः कृतो भवति, प्रतिषेधस्याब्राह्मणवदन्यत्र प्रसिद्धविषयत्वादन्यथा प्रतिषेधानुपपत्तेः / स्ववचनविरोधाच तदपि न चाज्ञानमित्युक्तविरोधः / किमिव ? राधकपूर्णकमातृव्यपदेशवत् / कुतः ? विशेष्यप्राधान्यादनवधारणात् / का भावना ? यथा राधकस्य पूर्णकस्य वैकैव माता विपक्षिता भवति तदा राधकमातेति राधकेन विशिष्यमाणा, पूर्णकमातेति पूर्णकेन वा, अथ राधकपूर्णकमातेति उभाभ्यां वा / सर्वथा राधकस्यैव पूर्णकस्यैव वा मातेत्यवधारणं नास्ति / विशेष्यप्राधान्यात्तथा ज्ञानाभ्यां तदेव विशिष्यते / वस्त्विति विशेष्यप्राधान्यानोक्तिविरोधो ज्ञानाज्ञानयोरविशेषात् / नतु यथा विशेषणप्राधान्यादवधारणं नीलमुत्पलमित्यतस्तेषामवबोधार्थाभेदात् / ज्ञानत्वमज्ञानत्वं चाविशिष्टमिति तत्प्रदर्शयन्नाहसंशयविपर्ययानध्यवसायनिर्णयावगमावबोधार्थत्वात् / 'गम्ल सप्लगतौ' अवपूर्णगमनमवगमोऽवगमश्चावबोधः / 'बुध अवगमने' इति वचनात् / सर्वेषां संशयविपर्ययनिर्णयानध्यवसायानां अवगमार्थत्वादवगमस्य बोधाबोधपर्यायत्वात् / तस्मादेतस्मिन्नयभङ्गेऽज्ञात एव शब्दस्यार्थः / भङ्गग्रहणं भङ्गान्तरसूचनार्थम् / परस्पर इति निरपेक्षाणां भङ्गानां वृत्तेम॒षात्वात्तद्विपर्यये सत्यत्वात्तेषां च विधिनियमयोरेव भङ्गत्वान्नयानां तस्मादस्मिन्नेव नयभङ्गे शब्दस्याज्ञातोऽर्थों नान्येषु तेष्वप्यन्येऽन्येा इत्येतस्य दर्शनस्स ज्ञापकमाह-यथा चाहुः-'अस्त्यर्थः सर्वशब्दाना मिति श्लोकः / सत्तामात्रमर्थः। सर्वशब्दानां कोऽप्यस्यार्थोऽस्ति न निरर्थकः शब्दः, स पुनरर्थो न निरूपयितुं शक्योऽयमयमिति / एतत्प्रत्याय्यलक्षणम् / तत्र दृष्टान्तोऽपूर्वदेवतास्वर्गशब्दानामर्था यथा तेषामत्यन्तापरदृष्टत्वादीदृशोऽपूर्वः स्वर्गो देवता वेशीति न प्रतिपद्यामहे निरूपणेन / तथागतादि 1 रसेन मा ग। 2 किमव ग-क। 3 बहि° ग। 4 तथा गवादि क-ग।