________________ भेदज्ञानवादः] न्यायागमानुसारिण्यलङ्कृतम् / त्यशक्यप्राप्त्यफलत्वाभ्यां वस्तुतत्वविचारो न युज्यते, क्रियाया एवोपदेशोऽतः श्रेयानिति लेशेनाभ्युपगतत्वाद्यस्यायमन्यभेद इति तस्यैव ज्ञानवादस्यान्योऽयं भेदः। कतमोऽसौ भेदः ? / सर्वमिदं ज्ञानप्रतिबद्धमेव जगत् यत् पृथिव्यादीति, कथं ? रूपादिमत्त्वात् घटादिवत् / आदिग्रहणात्पृथिव्यप्तेजोवायवः। नन्वेते पदार्था अज्ञान एव,किमर्थमज्ञानप्रतिबद्धं जगत् पृथिव्यादीत्युच्यते ? / उच्यते-आकाशकालदिगात्मेन्द्रियमनःप्रभृतीनामपि तद्व्यतिरेकेणानुपलब्धेर्न सन्ति,तन्मयत्वादेव च तद्वदचेतनानि / अत आह-इन्द्रियाण्यपि च तन्मयान्येवाचेतनानीति / तन्मयत्वानुमानं च भूयस्त्वागन्धवत्वाच / पृथिवी गन्धज्ञाने तथा तेजो वायुश्च, रसरूपस्पशेषु रसरूपस्पर्शविशेषादिति / स्थान्मतम् प्रत्यभिज्ञानाहङ्कारेच्छादिविशेषलिङ्गदर्शनादात्मा तद्गुणस्तयतिरिक्तोऽस्तीत्येतच्चायुक्तम् / गुणगुणिनोर्भेदमिच्छतांज्ञानादन्यत्वसाम्यात्पृथिव्यादिगुणत्वेऽपि तुल्यानुमानत्वादभ्युपेत्याप्यात्मादिव्यतिरेकं तत्करणत्वातेपामिन्द्रियाणां कारणत्वात्तानि वास्य करणानि तत्करणो ज्ञः / तैः करणैः प्रकाशितं घटादि स्थलमज्ञं प्रकाश्यत्वादेवं चान्यमप्यर्थ प्रकाश्य प्रतिपद्यमानेऽपि प्रतिपद्येत ज्ञः संभाव्यमानप्रतिपत्तिरपि पुरुषः स्थूलमेवार्थ प्रतिपद्येताज्ञानात्मकं कारणानि च ज्ञानि / अचेतनकरणप्रकाशितमप्यचेतनं प्रदीपप्रकाशितघटादिवदेव स्यात् स्थूलं / न च परमाण्वादि सूक्ष्मं शुद्धं चेतनखरूपपुरुषादि वा स्यादज्ञानादिप्रतिबद्धं तस्यापि चेन्द्रियसनिकृष्टस्येत्यादि सत्यपि च तस्य स्थूलस्य ग्राह्यत्वे तत् स्वरूपाज्ञानादज्ञो न सम्बद्धमेव तस्येन्द्रियसनिकृष्टद्रव्यान्तरव्यतिरिक्तमसाधारणं यत् स्वरूपमात्मादेर्वातीन्द्रियस्य क्वचित् कदाचिददृष्टत्वादिदमिदमिति न निरूपणोपायोऽस्ति / निरूपणं निर्णयज्ञानमिष्टं / किं कारणं न निरूपणोपायोऽस्तीदमिदमिति चेदुच्यते-प्रत्येकं समुदाये वा तद्दष्टानुपपत्तेः, तस्यासाधारणरूपस्थापूर्वस्यापूर्वत्वादेव दृष्टानुपपत्तिनिर्णयानुपपत्तिश्च प्रत्येकं तावत् स हि घट एकैकः कृष्णादिरूपोऽपूर्वत्वादृश्यते स्वरूपतः / तत एव प्रत्येकमनिरूपितस्वरूपाणां कुतो निरूपणं समुदाये ? सिकतासु प्रत्येकमनिरूपितस्य समुदाये तैलस्य निरूपणाभाववत् / निश्चयेन रूपणं निरूपणम् / तदुपायाभावादज्ञानप्रतिबद्धमेव सर्वमिति साधूक्तम् / स्यान्मतम्-अनुभवितुर्बाह्यविषयमिदमिदमिति निरूपणं मा भूद्यदि न भवति स्वसंवेदनं त्वान्तरं सुखदुःखादिषु / किं निरूपणं न भवतीति ? उच्यते स्वसंवेदनेनासनाद्यभ्यवहृतं परिणमतीत्यादिव्यभिचारान्न भवति / प्राणापानार्थ सञ्चेतयन्नेव हि कुरुते सर्वो लोकः / अभ्यवहृतमपि खलरसमावेन रसरुधिरादिभावेन च परिणमयन्न सञ्चेत दीनि ग। २°द्योऽपि ग। ३°ने वाग। ४°दज्ञेन क-ख। 5 भन्माग। 6 मसिक-ख। 7 तावन्त ग।