________________ नयचक्रम् / [ द्रव्यार्थिकप्रथमनास्ति प्रत्यक्षमित्यर्थः / तेषां चात्मादीनामन्यथा परमार्थतो विद्यमानानामनेकान्तात्मकानामेकत्वमेव, यावत् कल्पनादन्यथाध्यारोपात्कल्पनात्मकत्वादिभ्यो हेतुभ्यो भ्रान्त्यादिवन्न प्रत्यक्षमिति पूर्वोक्तं तदेव ब्याचष्टे-द्रव्यरूपादीत्यादि यावत्कल्पनात् द्रव्यग्रहणेन पृथिव्यादीनां तत्कल्पितानां सर्वगुणानां गुणग्रहणेन भवनग्रहणेन सत्ताया विशेषग्रहणेन गोत्वादीनां यावदन्त्यविशेषस्य / कारणग्रहणेनावयवादिद्रव्याणां संयोगादिगुणानां कर्मणां च ग्रहणम् / कार्यग्रहणेन व्यणुकाद्यवयविद्रव्याणां चित्रादिगुणानां च ग्रहणम् / तत्र परमार्थतः संचासंश्च पदार्थोऽनन्तरोक्तो द्रव्यादिस्तस्यानेकान्तः स्वतत्त्वं द्रव्यमपि रूपाद्यपि भवनमपि विशेषोऽपि कारणमपि कार्यमपीति / तस्य तस्यान्यतमैकान्तकल्पना तदतत्त्वं द्रव्यमेव गुण एव कर्मैव भवनमेव विशेष एव न तत् स्वतत्वमपीति / तस्मात्कल्पनात्मकत्वं सिद्धम् / ततः कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवदप्रत्यक्षं, कल्पनात्मकत्वादयः प्रागुक्ताऽध्यारोपात्मकालम्बनविपरीतप्रत्ययत्वादयः। अतः सर्वप्रमाणाविरोधीत्यादि। यावद्विधिरिति / अत इत्यनन्तरोक्तसर्वोपपत्तिप्रपञ्चतो यत्प्राक् प्रतिज्ञातं यथा लोकग्राहमेव वस्त्विति तनिगमयति / सोपपत्तिकं सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थालोकपरिग्रहणवदेवेति। प्रत्यक्षानुमानागमप्रमाणैरनवधारितकारणकार्योभयानुभयात्मकं तस्य तस्य वस्तुनो भावस्तत्त्वमविरोधि तसिंस्तत्त्वे तत्त्वस्य तत्त्वेन वा व्यवहारस्तस्मिन् समवस्था यस्य लोकस्य तस्य, लोकस्य परिग्रहः / स सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थालोकपरिग्रहस्तद्वत्तेन तुल्यं वर्तत इति / एवेत्यवधारणे / तादृग् लोकपरिग्रहवदेव सामान्यविशेषौ न तु सामान्यमेव विशेष एव परस्परं भिन्नावभिन्नावेवेति वा यथा शास्त्रेषु कल्पिताविति / अथवा सर्वप्रमाणाविरोधिनि तत्वव्यवहारे समवस्था यस्य स लोकः सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थस्तस्य परिग्रहवदेव सामान्यविशेषौ नान्यथेति यथा प्रतिपादितं लोकवदेव घटादिविषयाविति / यथा लोके घटादिभवनमेव सामान्यं / विशेषश्च द्रव्यक्षेत्रकालभावरूपभवनाविशेषाविशेषाभ्यामुक्तविधिना कार्यकारणादिभेदेन वा नियतौ सर्वत्र न मर्यादयेत्यनवधृतस्वभावौ / इति विधिः / इतिः प्रदर्शने / एवं विधिरित्थं विचारितो यः पृथगुद्दिष्टः / एषे च वेदनादिभिरपि लोकप्रमाणक आज्ञानिकवाद उपजीव्यत इति / नयानामेकैकस्य शतधा भेदात्सप्तनयशतान्यर्थी व्याख्यायन्ते, तेषां पुनश्चतुर्धा संक्षेपः / क्रियाज्ञानविनयवादसमवसरणवचनात् / तत्रोक्तं तेऽज्ञानिकवादः। 'किंचिन्न ज्ञायते, को वा / एतद्वेद ? किं वाऽनेन ज्ञातेने स चासंश्च ग १°नामेकात्तामेतया क-ग। २°दन्यक-ख। 3 ग्रहणात् ग। 5 एव क-ख /