________________ सहतेतिविचारणा] न्यायागमानुसारिण्यलङ्कृतम् / वार्थान्तरस्यानेकरूपत्वस्य / नन्विदमस्यैवार्थस्य प्रदर्शनार्थं प्रस्तुतमस्माभिर्यदिदं प्रत्यक्षं स्यात् कारकादेव स्वार्थादालम्बनाद्धेतोर्जायेत दाहानुभववत्प्रत्यक्षत्वादव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य स्खलक्षणविषयत्वादनध्यारोपात्मकत्वादिति यावत्। अपि च कारकतापि सर्वस्य नैव तत्र द्वितीयचन्द्रवत्परमार्थतोऽसत्त्वादनुरूपात्तव्यावृत्तिव्यवस्थानमात्रत्वाल्लोकवत्तु सर्वसत्त्वे विशिष्टोऽपदेशो व्यपदेशो ग्राह्यादन्यस्तेन व्यपदेशेन प्रमेयं व्यपदेश्यमनुमेयं न प्रत्यक्षं धूमानुमेयाग्निवदकारकतायां कारकतायां वा वस्तुनः पितृधूमादिवत् / अभिधानाव्यपदेश्यानेकात्मकत्वे अपि च नैवानुमिताग्निवदेवैकानेकविषयत्वान्नीलस्य / तद्धि नीलरूपनिरूपणं विकल्पः / प्रतिपरमाणु परस्परप्रतिभिन्नस्वतत्त्वानेकरूपरूपैकतत्त्वैकगमाध्यारोपात्सर्वसर्वात्मकैकरूपवस्तुरूपाद्यनेकरूपाध्यारोपाद्वा रूपान्तरसामान्यरूपविषयत्वात्तदतद्विषयवृत्तत्वादनपोहादपोहाद्वाम्यनुमानवत् तत्सामान्यात्मकेनैव परमार्थस्थितसञ्चयप्रज्ञप्तिनीलाणुभेदपरिग्रहात्मकत्वात्साधारणार्थविविक्तकल्पनात्मकत्वान्न प्रत्यक्षमप्रत्ययात्मकत्वाच्छब्दाश्रावणत्वप्रत्ययवत् / संवृत्यतीन्द्रियत्वाभ्यां हि न नीलादिषु न च सञ्चये कारणता तथा प्रतिपत्तिं प्रति अनुमानज्ञानमपि च तत्र प्रतिपूर्यते / सम्बद्धगृहीतस्यान्यथा प्रतिपत्तेविरुद्धवदिति समानमेतत्कल्पनात्मकत्वात् / अन्यदपि यथासम्भवं तत्प्रक्रियापतितमुक्त्वा यदुभयोः सामान्यं तत् सर्व योज्यम् / एवं तावत् विशेषाविशेषकान्तवादयोः स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधत्वात् लौकिकप्रत्यक्षविलक्षणं प्रत्यक्षं कल्पितमपि न युक्तमित्युक्तम् / नानात्वैकान्तवादेऽपि सामान्यविशेषयोरयुक्तं प्रत्यक्षमिति वर्तते / कीदृशं वा तत् प्रत्यक्षं कथमयुक्तं वेति ? / आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यनिष्पद्यते तदन्यत् / आत्मा मनसा मन इन्द्रियेणेन्द्रियमर्थेनेति चतुष्टयत्रयद्वयसन्निकर्षादुत्पद्यमानं प्रत्यक्षमित्येतदपि नानात्वैकान्तवादिनी मतं द्रव्यादिविनिर्मूलत्वात्किमादीनि न प्रत्यक्षम् / द्रव्यमादिर्येषां ते इमे द्रव्यादयो द्रव्यगुणकर्मसामान्यविशेषसमवायाः अद्रव्यत्वात् खपुष्पवन्न स्युः, एवं गुणेभ्योऽन्ये न स्युरगुणत्वादकर्मत्वात् कर्मणोऽन्येऽसामान्यत्वात्सामान्यतोऽन्येऽविशेषत्वाद्विशेषेभ्योऽन्येऽसमवायत्वात्समवायादन्ये निर्मूलत्वाच्च खपुष्पवत्सर्वे, तस्य निर्मूलत्वं चापरिणामित्वाद्वन्ध्यापुत्रवदतोऽसत्त्वादात्मादीनामात्मनोऽक्षार्थाभावे किमात्मादि यत् सन्निकर्षात् ज्ञानमुत्पद्येत? कस्य तदात्मद्रव्याभावात्कि तद्गुणाभावात् / इतिशब्दो हेत्वर्थे / राजपुरुषोऽसीति न विभेमीति यथा तथा इति न प्रत्यक्षमात्मादिद्रव्याणां ज्ञानादिगुणानां चाभावा 1 °यदीह ग। 2 °नियत्या / 3 तन्न क-ख। ४च ग-क। 5 °वादिनमन्तं ग / 6 अद्व्यत्वात् द्रव्येभ्योऽन्ये इति भाति /