________________ नयचक्रम् / [सञ्चितालम्बनइह तु तद्विपरीतं समुदायपरमार्थत्वम् / नीलादिसंवृतिसत्त्वं, संवृतिसन्तो नीलादय ऐन्द्रियाः / न परमार्थसत्समुदायः / किं कारणं ? तस्य रूपाद्यात्मकत्वात् / तदेकदेशभूतस्य रूपादेरपरमार्थसतोऽप्यविभासावस्थस्य एकस्यासर्वस्यालम्बनस्यासश्चितवत् / न ह्येकोऽसर्वः कदाचिदालम्बनं रूपं रसः शब्दो यथाऽसञ्चिताः परमाणवः पूर्वस्मिन् वादे नैन्द्रियिकाः। एवमसञ्चितवदस्मिन् वादे लोकलोकोत्तरव्यवहारप्रत्यक्षाभिमतेषु घटादिषु नीलादिषु चाभावान्न प्रत्यक्षं तद्विषयं ज्ञानमित्यभिसम्बन्धः / किमुक्तं भवति ? रूपादयः सर्वैकात्मरूपा एव सन्ति न पृथक्स्वरूपास्ततस्तद्विषयं ज्ञानमभावविषयत्वादप्रत्यक्षं वन्ध्यासुतादिविषयज्ञानप्रत्यक्षवदिति / अनया दिशा यदाभासं प्रत्यक्षं न नोऽक्षिविषयेऽस्ति / न तदाभासं प्रत्यक्षमित्यादि विशेषैकान्तवादिनं प्रति योऽभिहितः प्रपञ्चः स सर्वो योज्यः / तथा सम्भावनेऽपि चेत्यादि / रूपादेरेकस्य सत्त्वरजस्तमोगुणसाम्यावस्थानलक्षणप्रधानाख्यपदार्थत्वसम्भावनेऽपि नैव तत्साम्यावस्थानं शब्दादिभेदैकसर्वात्मकत्वाभावरूपं सम्भाव्यते / सम्भाव्यमानेऽपि च तस्मिन्नव्यक्ते तस्याव्यक्तस्यातीन्द्रियत्वादालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां रूपादिसङ्घात आलम्बनमिति प्राप्तम् / ते च रूपादयः प्रत्येकं परमार्थतोऽसन्तः / इतिशब्दो हेत्वर्थे / इत्यतः कारणाद्रूपादिसङ्घातालम्बनत्वात्तेषां प्रत्येकं परमार्थसत्त्वाभावान विषयता / रूपादयो न चक्षुरादिविषयाः परमार्थतोऽसत्त्वाद्वन्ध्यासुतवत् / रूपादिविषयं वा न प्रत्यक्षम् / परमार्थतोऽसद्विषयत्वाद्वन्ध्यासुतज्ञानवत् / तस्मादयोनिबीजप्रकृतिबहुधानेकप्रधानाव्यक्तादिपर्यायाख्य यद्वस्तु तदतीन्द्रियत्वादप्रत्यक्षम् / यदिन्द्रियविषयं तत्परिणामभेदे सङ्घाते रूपादि न तत्परमार्थसदित्याद्यशेषं विशेषकान्तवादिमते यथाभागं यो यो भागो यथाभागं तद्विपययेणाविशेषकान्तवादेन यद्यत्र घटते तत्तथानुसृत्य योज्यमित्यतीतं ग्रन्थार्थ सारयति / तद्योजनोपायदिग्मात्रप्रदर्शनार्थमप्याह-भेदाभेदसंवृतिपरमार्थस्थानव्यवस्थापनयेति / ये तत्र भेदरूपाः परमाणवः परमार्थसन्तस्तत्र संवृतिसन्तः सर्वसवोत्मकपरमार्थवादे यस्तत्राभेदः परमाणुसमुदायः संवृतिसन् सोऽत्र परमार्थसन्नित्यनया व्यवस्थापनया योज्यम् / पुनरुत्तरोऽपि ग्रन्थो योज्यस्तद्यथा-सर्वसर्वात्मकैकरूपान्तराविविक्तवतत्त्वे रूपादिसत्त्वादिसंघात इन्द्रियसनिकृष्ट आलम्बनविपरीतैकरूपेयं प्रतिपत्तिः / व्यपदेश्यानेकात्मकनीलरूपविषया न च हेत्वपदेशव्यपदेश्यैषा / यतः सर्वात्मकग्रहणापदेशेन धूमेनैवाग्निसामान्यवद् गृह्यते नानिर्देश्यरूपम् / किं कारणम् ? ततोऽन्यत् कल्पितमेकं रूपम् / ननु सर्वस्य कारकहेतुत्वेनापदेशः / प्रत्यक्षप्रतिपत्तेर्न धूमवत् / ज्ञापकहेत्वपदेशतयाग्नेरि १°पुत्रक-ख। २नुष्ठत्ग /