________________ सहतेतिविचारणा] न्यायागमानुसारिण्यलङ्कृतम् / 89 निर्विकल्पपरमार्थपरमाणुमात्रसाधादविकल्पकमविकल्पकत्वाद्यथा पूर्व प्रत्यक्षलक्षणोदाहरणवाक्ये दोपाश्चक्षुर्नैव चक्षू रूपं नैव रूपं विज्ञानं नैव विज्ञानमित्यादयः। तथा श्रोत्रादिवृत्तिः प्रत्यक्षं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां मनसाधिष्ठिता वृत्तिः शब्दस्पर्शरसरूपगन्धेषु यथाक्रमं ग्रहणे वर्तमाना प्रमाणं प्रत्यक्षमिति युवतः सर्वसर्वात्मकत्वे निर्विकल्पत्वाद्विभागाभावात् किं श्रोत्रं यन्न त्वगादिभ्यो विभक्तं?, किमश्रोत्रं त्वगादि यच्छोत्राद्विभक्तं? यच्चोतं श्रोत्रादीनि तत्र क आदिः / सर्वात्मकैकवस्तुत्वे प्रथमद्वितीयाद्यन्योऽन्यापेक्षविभागाभावात् / को नामादिमध्योऽन्तो वा ? का वृत्तिस्तेषां श्रोत्रादीनां पूर्वमवृत्तानां पश्चाद्वत्तिः / कालभेदेनावस्थान्तरत्वेन च विशिष्टा का वृत्तिवृत्त्युपरमलक्षणा विभागाभावादेव / किं प्रति कतमोऽन्यो भावोऽन्यमपेक्ष्य तं प्रत्यक्षमित्युच्यते / नपुंसकलिङ्गस्याव्यक्तगुणसन्देहविषयत्वात् / किं प्रतीति प्रश्नः / किं प्रति सर्वसर्वात्मकत्वैकैकं नापेक्ष्यते / किमक्षमिन्द्रियं यद्विषयव्यतिरिक्तं श्रोत्रादि परस्परव्यतिरिक्तं वा ?, किमनक्षमिन्द्रियव्यतिरिक्तं विषयो रूपादिः परस्परतोवा ? / इतिः प्रदर्शने / इत्थं विभागाभावाद्विभागेन लक्षणप्रणयनं स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधनादिग्रहणातिक शब्दादि किं मनः? किमधिष्ठेयं ? केनेति / किं चान्यत् / त्वन्मतेनैव प्रत्यक्षलक्षणायोगः। यदुक्तं लोकशास्त्रे-'न हि वस्तुस्वतत्वसाक्षात्प्रतिपत्तिः प्रत्यक्षा वस्तुनः' ।खं तत्त्वमसाधारणमात्मीयं रूपं वा तस्य साक्षात् प्रतिपत्तिनं व्यवहिता सा। प्रत्यक्षं तत्तु त्वन्मतवत् / तत्त्वेवंलक्षणं प्रत्यक्षं त्वन्मत इव त्वन्मतवत् / यथा सर्वसर्वात्मकत्वे त्वन्मते श्रोत्रादिवृत्तेः सर्वसर्वात्मकवस्त्वेकदेशशब्दादिविषयत्वात्समुदायरूपत्वाद्वस्तुस्वतत्वस्य विभागाभावाच्छ्रोत्रादिवृत्तिर्न सम्भवतीत्युक्तम् , तथा तस्य निर्विकल्पस्य वस्तुनो वस्तुस्वतत्त्वसाक्षात्प्रतिपत्त्यभिमतं लोकिक सामयिकं च प्रत्यक्षलक्षणं न घटते / निर्विकल्पत्वात् सिद्धेः। नैव तन्निर्विकल्पकं प्रत्यक्षं शब्दादिविभागविकल्पविषयित्वात् , अविभागरूपं च सर्वसर्वात्मकं वस्तुस्वतत्त्वम् / तद्विषयं च तन्न भवति / ततश्च कल्पनात्मकं / कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवन्न प्रत्यक्षमिति वर्तते / कल्पनात्मकत्वान्निरूपणविकल्पात्मकत्वादालम्बनविपरीतप्रतिपत्त्यात्मकत्वादध्यारोपात्मकत्वादसामान्यरूपविषयत्वात्तदतद्विषयवृत्तित्वात्सदसदभेदपरिग्रहात्मकत्वात् सर्वथा साधारणार्थत्वात् भ्रान्तिसंशयानुमानादिज्ञानवदिति / सञ्चितालम्बनस्थान उक्तवदित्यादि यावन्नीलादिष्वभावादित्यनेनातिदिष्टग्रन्थार्थभावनोपायदिक्प्रदर्शनं करोति-मा भूद्वयामोह इति / यादृक् सञ्चितालम्बनस्थानेऽसाभिरुक्तं परमाणुनीलादीनां सञ्चयसामान्यं संवृतिसत्त्वादसदिति / १नादि ग। 2 विशिष्टाकाशक-ख।