________________ 88 नयचक्रम् / [ सञ्चितालम्बननविज्ञानमात्रम् ? किं कारणम् ?, तस्यापि तत्पूर्वकत्वात् ,तस्याप्यनुमानस्य पूर्वकत्वात् / प्रत्यक्षपूर्वकत्वात प्रत्यक्षपूर्वकं हि स्वानुभवोत्तरभाविविकल्पात्मकमविकल्पज्ञानसमनन्तरजन्मानुमान मानसमनिन्द्रियमयोगि मानसप्रत्यक्षपूर्वकमेवेष्यते / तस्यैव प्रत्यक्षस्यापि सिद्धौ कुतोऽनुमानसिद्धिः? अतो नानुमानमात्रम् , अत आहतदसिद्धावसिद्धिरतन्त्वपटवत् / यथा तन्तुपूर्वकस्य पटस्य तन्त्वसिद्धावसिद्धिः। तत्पूर्वकत्वात् , तथा प्रत्यक्षासिद्धावसिद्धिरनुमानस्य / एवं तावत्प्रमाणविज्ञानमात्रत्वासिद्धिः। एवं तर्हि संशयभ्रान्त्यादिकल्पनाविज्ञानमात्रमस्तु / तदपि संशयभ्रान्त्यादिकल्पनादिमानं वा, न संशयमात्रं न भ्रान्त्यादिमात्रमादिग्रहणान्न समानुभवानुभूतानुकारमात्रं न तैमिरिककेशोण्डुकाद्याकारमात्रम् , सर्वस्यास्य कल्पनात्मकस्य प्रमाणाभासस्थान्त एव प्रत्यक्षपूर्वकत्वादेव तदसिद्धावसिद्धः / स्यान्मतम्-अनध्यवसायमात्रमस्त्विति / तदपि न, अनध्यवसायमानं नासंचेतितं वाव्यक्तसुखदुःखादिस्वरूपमित्यर्थः / किं कारणम् ? अविग्रहात्मकत्वात्तस्य / नहि तदत्यंतासंचेतितं नाम ज्ञानमस्ति / यद्यप्यव्यक्तज्ञानमस्त्यपटुत्वात्तदथ विग्रहात्मकं न भवत्यतो विज्ञानमेव न भवति यस्माद्विजानातीति विज्ञानमिष्टम् / तच न किञ्चिद्विजानातीति नानध्यवसायविज्ञानमात्रम् / तस्मान्न विज्ञानमात्रं प्रमाणम् / प्रमाणाऽभाविज्ञानेष्वनन्तर्भावात्कतमद्विज्ञानमात्रमिदं सर्वम् ? एतेभ्यश्च विज्ञानेभ्यो व्यतिरिक्तस्यान्यविज्ञानस्याभावान्न किश्चिदेतद्विज्ञानमात्रं सर्वम् / इत्यलमतिविकाशिन्या संकथयेति / संक्षिप्योपसंहरति / प्रत्यक्षलक्षणस्य सर्वथा दूषितत्वात् / इतरथा ह्यद्यापि दूषणवचनप्रपश्चस्य नैकस्यावकाशोऽस्तीति / एवं तावद्विशेषकान्तवादिना कल्पितं लौकिकप्रत्यक्षविलक्षणं प्रत्यक्षं न घटते / स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधत्वात् / अनयैव च दिशा स्ववचनव्यपेक्षवाक्षेपो द्रष्टव्य इति वाक्यशेषः / एषोऽतिदेशः कस्यचित् / अविशेषकान्तवादिनोऽपि / अपिशब्दादनन्तरोक्तस्य विशेषवादिनोऽसंभवात् / उभयवादिनोऽपि / तंत्र यद्विशेषवादिनः प्रागुक्तं दोषजातं कल्पनापोडं प्रत्यक्षमिच्छतः कल्पनात्मकमेव हेतुपरम्परया परिपाट्या प्रत्यक्षत्वमनुमानमुभयैक्यं सङ्करः / अभावमनिर्देश्यत्वमस्वलक्षणता च कारकज्ञापकाविशेषापादनादभिधानार्थव्यपदेश्यता च / पश्चाच्च कल्पनापोढतामभ्युपेत्यादिवसामान्ययोर्लक्षणयोरभावाच्चक्षुषो रूपस्य तद्विज्ञानसेवाभाव इत्यादि लक्षणवाक्यमुद्दिश्य तदिदानीमुत्क्रमेण वाच्यमिति तदिशं दर्शयति-सर्वसर्वात्मकतायामित्यादिना यावदनक्षमिति / एवं हि लक्षणदूषणातिदेशः 'सर्व सर्वात्मक'मित्यविशेषमिच्छतः साङ्ख्यस्यापि, सर्वात्मकैकस्य वस्तुनो रूपरसादिभेदेन श्रोत्रादिभेदेन च विकल्पयितुमशक्यत्वाद्विशेषकान्तवादिन इव , मवेष्यते ग। 2 यत्र ग।