________________ सहतादिविचारणा ] न्यायागमानुसारिण्यलङ्कृतम् / क्लेशो बाह्यवस्तुतत्त्वप्रतिपत्तिजनितो विज्ञानाद्वाह्यं वस्तुतत्त्वमस्तीति प्रतिपत्तौ सत्यां जायतेऽयं संक्लेशः। यदि परमाणव आलम्बनं ततोऽतीन्द्रियत्वसश्चितालम्बनत्वाद्यभ्युपगमविरोधः / अथ समुदायोऽसत्वात् खपुष्पवदनालम्बनमेव / प्रत्येकं ते समुदिताः, स्ववचनविरोधादिदोषः / प्रोक्तन्यायेनेत्येवमादिविरोधोद्भावनजनितेन चित्तसंक्लेशेन किमर्थ वाच्यामहे ? / एवं तु सर्वदोषविनिर्मुक्तमिदं कल्पनान्तरमाश्रयामहे विज्ञानमात्रकमिदं त्रिभुवनम् / यदुक्तं 'यौः क्षमा वायुराकाशं सागरः सरितो दिशः। अन्तःकरणतत्त्वस्य भागा बहिरिव स्थिताः॥' इति / न द्रव्यसंवृत्या, न पुनरेतस्यां कल्पनायामेवंविधः संक्लेशोऽस्ति, यत् इदं संवृतिसदिदं परमार्थसदिदमैन्द्रियकमिदमतीन्द्रियमित्यादि विकल्प्यमानं विज्ञानायतिरिक्तमर्थजातमिच्छतां स्यात् / ननु तत्ततो भिन्नमस्ति तस्मादनर्थको विचार इति / अत्रोच्यते-ननु देवानां प्रिय! त्वन्मतवदेव विज्ञानवादविध्वंसनार्थोऽयमारम्भः / यथेदं कल्पनापोढं प्रत्यक्षमित्येतस्य त्वन्मतस्य तत्संवादिनो बुद्धवचनस्य च विध्वंसनार्थोऽयमारम्भः / तथा विज्ञानमात्रवादविध्वंसनार्थोऽप्ययमेवारम्भः / त्वत्तीर्थकराभिहतत्वात्तस्यापि / अथवा तत्परमार्थत्वात् / तत्प्रतिपादनार्थत्वाच्च सर्वदेशनानां बौद्धानां तद्विध्वंसनार्थ एवायमारम्भः। एतदपि प्रमाणाभावादयुक्तमिति ग्राह्यं प्रमाणाभावश्च प्रमेयाभावादिति सदोषः स्थित एवेति दर्शयति / निष्ठतु तावदित्यादि / तं चोपायेन दर्शयिष्यन्नाह-बाह्यार्थभावे विज्ञेयत्वाभावः। तस्य विज्ञानमात्रत्वात् विज्ञेयत्वाभावे च तस्य विज्ञानत्वमपि नास्ति / विजानातीति विज्ञानम् / किं विजानाति विज्ञेयाभावे ? ततः प्रमेयत्वाभावात् प्रमाणत्वाभावः प्रत्यक्षस्येति ज्ञेयज्ञानं प्रमाणप्रमेयत्वविलक्षणं खपुष्पवत् / किं तत्प्रत्यक्षं नामेत्येष दोषो दुर्निवारः / स तावत्तिष्ठतु / इदं तावदस्तित्वाभ्युपगमे वा नान्यथा विचार्यते / विज्ञानं हीत्यादि / हिशब्दो दृष्टार्थे / दृष्टं हि लोके विज्ञानं प्रत्यक्षादि प्रत्यक्षमनुमानं च प्रमाणे विज्ञाने आदिग्रहणात् संशयविपर्ययानध्यवसायलक्षणानि च विज्ञानानि प्रमाणाभासाभिमतानि / इदमसि त्वं प्रष्टव्यः। तत्र निर्धाय कतमत्तव विज्ञानमात्रमिदं सर्वत्रेकधातुकमिति नैकमपि विज्ञानमात्रं भवतीत्यभिप्रायः। ब्रूयास्त्वं प्रत्यक्षविज्ञानमात्रमिति तत्र तावत्प्रत्यक्षविज्ञानमात्रं तस्यैवमवस्थत्वात् / तस्य प्रत्यक्षविज्ञानस्यैवमवस्था यथासाभिर्व्याख्याता 'न रूपादिविषया न समुदायविषया न चक्षुरादिनिमित्ता संवृत्या परमार्थेन वा युज्यत' इति तस्मान्न प्रत्यक्षविज्ञानमात्रम् / स्यान्मतम्-अनुमानविज्ञानमात्रमिति / तदपि नानुमा , मिच्छता ग / 2 स्व क-स्त्र। 3 निबन्धना क-ख। . मत् ग।