________________ नयचक्रम् / [ सञ्चितालम्बनकालतश्वावस्थान्तराप्राप्तेरिति / प्रत्येकत्वप्राप्तिरपि चैवं नैव निर्मूलत एव परमाणूनां, यापि प्रत्येकत्वप्राप्तिः सापि चैवमुक्तविधिना नैवास्ति स्वरूपप्राप्तिमात्रदेशकालाप्रतीक्षित्वविनाशित्वादसत्त्वाद्वन्ध्यापुत्रवत् / यथा वन्ध्यापुत्राणां प्रत्येकस्य प्रत्येकस्य प्राप्तिास्ति तथा परमाण्वभिमतानां तथानवस्थानानामभावान्न प्रत्येकत्वप्राप्तिरिति / सहोत्पाददोष इति चेत् , तेषां परमाणूनामसत्त्वमसिद्धं तथानवस्थानावस्थानानामपि देशैक्येन कालैक्येन सहोत्पादाभ्युपगमात्तस्मादस्ति प्रत्येकत्वप्राप्तिरित्येतच्च न, तुल्यत्वात् परमाण्वसत्त्वस्य देशकालभेदोत्पादासत्त्वेन सहोत्पादासत्त्वस्य तुल्यत्वात् / विकल्पद्वयेऽपि योगपद्यासिद्धेः। इदमसिद्धं द्रष्टव्यम् / किंभूतस्य सहता, अभूतस्य ? इति विकल्पद्वयानतिवृत्तेरेव प्रश्नः / उभयथापि न घटत इत्युत्तरं वक्तुमनसः। इतर आह-अभूतस्य सहतेत्ययुक्तो विकल्पः। एवं ब्रूयादभूतस्य खपुष्पस्येव सतोऽसतो वा सहतेति, यतः स विकल्पः पूर्वपक्षे ते तस्माद्भूतस्य सहतेति बेमः / अत्राचार्य आह-त्वमेवैतद्विकल्पद्वयं 'तथावस्थाः प्रत्येकसमुदिताः कारणं परमाणवः' इति ब्रुवाणश्चिन्तय क एवमाहेति ? / किं न एतेन ? यो ब्रवीति स ब्रवीतु / यदि भूतस्य यदि तावद्भूतस्य सहोत्पादः / भवनानन्तरविनष्टत्वात् क्षणिकवादः / कुतः सहता / नास्त्यत्र कारणं सहत्वे कस्यचित्केनचिदित्यर्थः / उक्तवदित्यतिदेशात् / देशकालाभ्यामत्यन्तभेदे निरभिलाप्यस्वभावानां प्रत्येकत्वप्राप्तिरेव नास्तीत्युक्तम् / तथा तेषामसत्त्वापत्तेरणूनां कुतः सहतेत्यभिसम्बन्धः। प्रतिलब्धमहत्त्वस्य चोत्पाद उच्यते त्वया / तत्तु सहत्वं यौगपद्यमप्रतिलब्धमसत्वापत्तेरेव तस्मात्सहोत्पाददोष इत्यपरिहारः / अथाभूतस्योत्पादो यौगपद्येनेष्यते सापि सहता वो नोपपद्यतेऽनिष्टप्रसङ्गात् / किमनिष्टम् ? वन्ध्यापुत्रसमुदायोऽपि स्यादित्यनिष्टं / कुतः ? अभूतत्वादस्थितत्वादणुसमुदायवदितीदं साक्षादनिष्टापादनम् , अणुसमुदायोऽपि न स्यादभूतत्वादस्थितत्वाद्वन्ध्यापुत्रसमुदायवत् / अभूतत्वमस्थितत्वं च हेतुद्वयं शून्यक्षणिकवादिनोः सिद्धत्वादुक्तं सन्तानादिति चेत् / स्थान्मतम्-अभूतत्वमस्थितत्वं चेष्यते तेषां तथापि जन्मविनाशसन्तानसाध्यावच्छेदात् स्थितत्वमस्त्यतः सहोत्पादादोष इति / एतच्चायुक्तं / यस्मात्सोऽप्येवमेव, सोऽपि सन्तानो भूतो वा सादभूतो वा ? यदि भूतः कुतः सहता ? उक्तवत् भवनान्तरविनष्टेभ्योऽन्यस्य सन्तानस्याभावात् / अस्ति चेत्तद्विलक्षणो नित्यान्य इति सर्वक्षणिकप्रतिज्ञाहानिः, अथाभूतो वन्ध्यापुत्रवदित्याद्यभिहितदोषाक्रान्तमेव / अथोच्येत वाक्यवस्तुतत्वेत्यादि यावत्ततो भिन्नमस्तीति / अत्यधिकारान्तरे। अथ सहतालम्बनविषयज्ञानपक्षे कल्पिताकल्पिता उपपत्तयो विफला भवन्ति सदोषाश्चेति तं परित्यज्येदमुच्यते / सर्व एवैष विरोधसं च ग। 2 चैतेषां ग। 3 मयो ग। 5 °काङ्गु ग / 5 युज्येत क-ख /