________________ सहतादिविचारणा] न्यायागमानुसारिण्यलङ्कृतम् / व्यस्ता इत्येतदर्थादापन्नमिति तदेव पुनः स्मारयति / दोषान्तरैरनेकान्तवत् / द्वयोरन्तरयोरवस्थातव्यम् / द्वावन्तौ द्वौ देशौ द्वयोर्देशयोरवस्थेयं / तैः परमाणुभिरेकतः प्रत्येकसमुदितैः, किमिव ? अनेकान्तवत् अनेकान्तेन तुल्यं वर्तत इति अनेकान्तवत् / यथा द्रव्यान्तरपर्यायान्तरयोरवतिष्ठमानाः परमाणवः / त एव तत्समुदायश्चेति व्यपदिश्यन्ते तथा प्रत्येकतायां चावस्थेयमित्यनेकान्तसाधयं दर्शयति / चशब्दः समुच्चये / किं समुचिनोति ? / समुदायमुपरितनं प्रत्येकतायां च समुदाये वावस्थातव्यमिति / अग्न्यभावाच तदशक्यशक्ते समुदायेऽग्नेः शक्यं दहनादि ह्लादनस्नेहनाद्यशक्यम् , अम्भसस्तु स्नेहनह्लादनादि शक्यमशक्यं दहनादि / तदशक्ये शक्तः तदशक्यशक्तः प्रत्येकाशक्येऽशक्तः समुदायः, वाक्यार्थस्तु लोकव्यापिनोऽपि परमाणवः सङ्घातभेदपरिमाणापेक्षा एव चाक्षुषत्वादिभाजो भवन्ति नान्यथेत्युभयत्र स्याद्वादिनो जैना यद्वदन्ति तदेव तवाप्यापन्नम् / कुतः ? साक्षात्तदुक्ततत्त्वत्वात् / तथैव साक्षादुक्तम् / तत्त्वमेष परमाणूनां प्रत्येकं चक्षुर्विज्ञानोत्पादने न शक्तः समुदिताः शक्ता इति / एवं तावत्साक्षादनेकान्ताभ्युपगमः। अर्थापत्त्या वाभ्युपगत एव / अनेकैकत्वभृशगत्यर्थसमुदायपरिग्रहाच समित्येकीभावे स चैकीभावोऽनेकस्य / 'इण् गतौ / अयन-गमनं गतिराय इति पयोयाः। उत्कृष्ट आय उदायः संगतो भृशं आयः, समुदायशब्दस्य तत्परिग्रहात् प्रत्येकं तेषु समुदिता अनेकैकीभूतभृशगतय इत्यर्थः कृतस्तस्साचानेकान्तवादाभ्युपगमः / किं चान्यत् ? इतरथापि चैषां समुदाय एव न स्यात् / न्यायतोऽपीत्यर्थः / एतत्प्रतिज्ञानसमुदाय एव न स्यात् / प्रत्येकमभूतत्वाद्वन्ध्यापुत्रवदित्येष न्यायः। यथा प्रत्येकमभूतानां वन्ध्यापुत्राणां समुदायो नास्ति तथा परमाणूनामिति / न त्वयमन्यायः प्रत्येकमभूतत्वासिद्धेः परमाणूनामिति चेन्नेत्युच्यते- बौद्धैरेवोक्ता त्रयातिरिक्तसंस्कृतक्षणिकनित्यत्वाभ्युपगमेन सहासङ्गतिरस्य / यदुक्तं वः सिद्धान्ते-'बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिके च तत् / ' इति / आकाशस्याप्रतिसंख्याप्रतिसंख्यानिरोधाख्यत्रयादन्यत्प्रत्ययजनितत्वात्संस्कृतं, संस्कृतत्वाच्च क्षणिकानित्यं, क्षणोऽस्यास्तीति क्षणिक क्षणमात्रमेवास्य कालो न परत इति क्षणिकानित्यमेव / न कालान्तरावस्थाप्ये नित्यत्वम् / लौकिकाभिमतघटादिवत् / इत्येतेनाभ्युपगमेन सह प्रत्येकं ते समुदिताः कारणमित्यस्याभ्युपगमस्य सङ्गतिर्नास्ति / किं कारणम् / प्रत्येकत्वप्राप्तानन्तरमेव विनष्टत्वात् / एकैकस्य परमाणोः स्वरूपलाभसमनन्तरमेव विनष्टत्वात् कः प्रत्येकं समुदायः ? / को वा देशतोऽत्यन्तं रूपादिभेदेन यावदनभिलाप्यतथावस्थानं भिद्यमानानां प्रत्येकं भाव इति सिद्धम् / प्रत्येकमभूतत्वं देशतः 1 °यार्थो ग। 2 °यानां त्याग क-ख-ग। 3 भृशमत्यर्थ क-ख।