________________ मयचक्रम् / [सञ्चितालम्बननाभविष्यन् , भवन्ति तु तस्मात्प्रत्येकं विद्यमानशक्तय एवेन्द्रियविषयपरमाणवः समुदायेऽभिव्यक्तशक्तयो भवन्तीति / अत्रोच्यते-नन्वेवमभ्युपगतनिराकरणफलैवेयं प्रत्यक्षव्यवस्था / अभ्युपगतं 'सञ्चितालम्बनाः पञ्च विज्ञानकाया' इति तस्याभ्युपगतस्य निराकरणं फलमस्याः प्रत्यक्षव्यवस्थायाः / कुतः ? असश्चितपरमाण्वालम्बनाश्रयणात् प्रत्येकं दर्शनशक्तिमतामिन्द्रियविषयपरमाणूनां दर्शनशक्तिव्यक्तिरित्यस्यां कल्पनायां यन सञ्चिताः परमाणवश्चक्षुर्विज्ञानोत्पादनशक्ता इत्येतदाश्रितं भवति पञ्चानां विज्ञानकायानामसञ्चितालम्बनत्वं तच्चाभ्युपगतं निरुणद्धि सञ्चितालम्बनत्वमिदं कल्पनान्तराश्रयणम् / किं कारणं ? प्रत्येक दर्शनशक्तिख्यापनात् शिबिकावाहकसाधर्म्यात्त एव हि दर्शनशक्तियुक्ताः प्रत्येकमिति भवति / स्यान्मतम्-ननु प्रत्येकशक्तानामेव सञ्चये तच्छत्त्यभिव्यक्तिरित्युक्तम् / आचार्य आह-सत्यमुक्तम् , एतदयुक्तं / किं कारणम् ? जनकानन्यथात्वात्। न हि ज्ञानस्य जनकेभ्यः परमाणुभ्योऽन्यः सञ्चयोऽस्तीति प्रागेतद्विस्तरेण प्रतिपादितम् / तसाजनकानन्यत्वात् सञ्चयाभावात्प्रत्येकं दर्शनशक्त्यभिव्यक्तिः प्रत्यक्षव्यवस्थाभ्युपगतनिराकरणफलैवेयम् / अथवा जनकानामन्यः प्रकारोऽन्यथा तद्भावोऽन्यथात्वम् , तत्प्रतिषेधो जनकानन्यथात्वं तस्माजनकानां-परमाणूनामतीन्द्रियाणामनन्यथात्वादैन्द्रियकत्वव्यवस्थानाभावात् सञ्चयस्यार्थान्तरभूतस्याभावादसति परमाण्वालम्बनश्रयणं तदवस्थम् , अथवा युक्तैषा कल्पना त्वयाश्रयि न खलक्षणविषयं प्रत्यक्षमित्येतत्प्रतिज्ञानसंवादित्वात्तन्निर्वोढुकामेन / यस्मात्प्रत्येकं ते समुदिताः कारणमित्येतत्प्रत्यक्षविषयसमर्थनवचनमादिप्रतिज्ञातेन तुल्यं वर्तत इत्यादिप्रतिज्ञातवत् / आदिप्रतिज्ञातानुरूपं या हि प्रतिज्ञा खलक्षणविषयं प्रत्यक्षमिति सैतेन वचनेन निरुध्यते यस्मात्स्वलक्षणविषयत्वप्रतिसमाधानेन निर्वहणमेतत् खलक्षणविषयं प्रत्यक्षमित्यादौ प्रतिज्ञाय प्रत्येकं ते समुदिताः कारणमिति ब्रुवताSणूनां स्वलक्षणत्वात् प्रत्यवेक्षितव्यार्थापायसाध्यसाधनसम्बन्धं हि वक्तव्यम् , अहो साधु, किन्तु पुनरत्र देवानां प्रिय ! भवतो दोषजातम् / किं तत् ? अनेकार्थजन्यखार्थसामान्यगोचरनिरसनम् / तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमिति चोद्योत्तरपक्षपरिग्रहेण प्रत्यवेक्षितव्यार्थापायसौस्थित्यार्थनिगमनवचनमनेन तु निरस्यते / अथ मा भूदेष दोष इति प्रत्यवेक्षितपूर्वोपरानुमतनिगमपरिग्रहेण वा आदिप्रतिज्ञातार्थनिरसनम् / वाशब्दस्य विलक्षणत्वात् स्खलक्षणविषयप्रत्यक्षत्वं वा निरस्यते / अनेकार्थजन्यस्वार्थसामान्यगोचरता चोभयं वा निरस्यत इति / किं चान्यत् ? प्रत्येकं ते समुदिताः कारणमिति वचनाद, नन्द ग। २°ध्योऽर्थोपर्थ ग /