________________ सहतादिविचारणा] न्यायागमानुसारिण्यलकृतम् / भिाह्यस्य नीलादेः समूहात्मकस्य विषयो गोचरः / सम्बन्धि चक्षुरादिविज्ञानं तस्य नीलादिपरमाणवो नालम्बनमन्यथा परमार्थतो विद्यमानत्वात् चक्षुरादिवत् , नीलादिग्राह्यविषयज्ञानालम्बना न भवन्ति परमाणवः / यथा चक्षुरादीन्द्रियाण्यन्यथा परमार्थतो नीलादिपरमाण्वात्मकानि सन्ति, अन्यथा नीलादिज्ञानोत्पत्तौ हेतुभावं बिभ्रति नालम्बनानि तथा परमाणव इति, इतश्च परमाण्वालम्बनं न भवति चक्षुविज्ञानं तदसाधारणविषयत्वाद्वा तस्य साधारणविषयत्वाच्चक्षुर्विज्ञानस्य / असाधारण एकैको नीलपरमाणुर्विषयोऽस्येति, तदसाधारणविषयत्वं / तच्च सिद्धं प्रत्येकं च ते समुदिताः कारणमितिवचनात् , तस्मादसाधारणविषयत्वाद्वा रसज्ञानवत् / यथा रसज्ञानमसाधारणविषयत्वान्नीलपरमाण्वालम्बनं न भवत्येवं चक्षुर्विज्ञानमपि / वाशब्दात्तन्नीलपरमाणवश्चक्षुर्विषया न भवन्त्यसाधारणविषयत्वात् / असाधारणाश्च ते विषयाश्च, रसज्ञानवत् रसज्ञान इव रसज्ञानवत् / यथा रसज्ञाने रसलक्षणोऽर्थोऽसाधारणविषयत्वात् त्वन्मतेनैव चक्षुर्विज्ञानविषयो न भवत्येवं नीलपरमाणव इति / इतर आह-ननु च प्रत्येकमेव ते समुदिताः कारणमित्यादि यावदन्धपतौ च प्रत्येकादर्शनवैलक्षण्यं नेति / ननु मया विशिष्योक्तं प्रत्येकमेव ते समुदिताः कारणमिति / किमुक्तं भवति / तथासन्त एव परमाणुत्वेन परमार्थसन्त एव समुदिताः परमाणवश्चक्षुरादिज्ञानोत्पत्तिहेतुत्वादालम्बनम् / किं कारणं ? तदवस्थानं ज्ञानोत्पादनशक्त्यभिव्यक्तेः, समुदाय अवस्था येषां ते तदवस्थाः / तदवस्था एव हि ज्ञानमुत्पादयितुं शक्ताः। सा हि ज्ञानोत्पादनशक्तिः प्रत्येकं विद्यमाना नाभिव्यज्यते, समुदायेऽभिव्यज्यते / को दृष्टान्तः? चक्षुरादिपरमाणूनामिव प्रत्येकं रूपदर्शनशक्तानामपि न सा शक्तिरभिव्यज्यते / समुदाये त्वभिव्यज्यते / तद्वदालम्बनपरमाणूनामपि विषयविषयिपरमाणूनां प्रत्येकं तब्यक्तीनामप्यसमुदितानां शक्त्यभावं तुल्यं दर्शयति / न ह्येक इन्द्रियपरमाणुर्विषयपरमाणु विज्ञानमुत्पादयितुमलमिति, न तत्समुदायः प्रज्ञप्तिसत्त्वात् , नापि तेषामिन्द्रियविषयपरमाणूनां समुदायो विज्ञानमुत्पादयितुमलम् / प्रज्ञप्तिसत्त्वात् / परमार्थतोऽसत्त्वादित्यर्थः। तस्मादेकमेकं प्रति कारणभावः, प्रत्येककारणता, तस्यां सत्यामेव प्रत्येककारणतायामणूनां समुदाये दर्शनशक्तिव्यक्तिः / किमिव ? शिबिकावाहकसमुदाये वहनशक्तिवत् / यथा शिविकावाहकानां प्रत्येकं विद्यमानैव सा वहनशक्तिः समुदायेऽभिव्यज्यते / तथेन्द्रियविषयपरमाणूनां दर्शनदृश्यशक्तिः वैधयेणान्धपतौ प्रत्येकादर्शनवैलक्षण्येन / यथान्धानां प्रत्येकमसती दर्शनशक्तिव्यक्तिस्तत्पशावपि न भविष्यति / तथेन्द्रियविषयदृष्टदृश्यशक्तयो १°परमाणुतां ग।