________________ नयचक्रम् / [ सश्चितालम्बनमाणुत्वेनाविषयत्वादविषयत्वादेवानालम्बनत्वादत एवाप्रत्यक्षत्वात् / किं चान्यत् / पक्षान्तरापत्तिश्चैवम्-यदाभासं तेषु ज्ञानमुत्पद्यते तथा ने आलम्बनमित्येवं पक्षं परित्यज्य यथा ते विद्यन्ते तथा न आलम्बनमित्ययं पक्ष आश्रितो भवति / पक्षान्तरगमनं च वादावसानायेति / किं चान्यत्-अस्मिन्नपि च पक्षे त्वयैव वसुबन्धु प्रत्युक्ता ये दोषास्ते तवापि स्युर्यसात्त्वयापि चायं पक्षोऽङ्गीकृत एव / कथमिति चेत? तदर्शयति / यथा च प्रत्यक्षोत्पत्तिबीजसञ्जननार्थमुक्तम् / प्रत्येकं च ते समुदिताः कारणमिति / तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमित्यस्य व्याख्यायां पुनर्वसुबन्धुं दूषयितुकामेन विकल्पितः स एवार्थः। किं ? यथा विद्यमाना अन्याभासस्यापि विज्ञानस्य कारणं भवन्ति तथा प्रत्यक्षस्यालम्बनं रूपादय इति पूर्वपक्षत्वेनैतयोश्च वचनयोरेकाकारार्थत्वादसावपि पक्षोऽभ्युपगतस्त्वया / ततः. को दोष इति चेत् ? / एवमपि तत आलम्बनमतीन्द्रियत्वादिन्द्रियगोचरातीतत्वाद्गगनवदिन्द्रियज्ञानालम्बनं न भवन्ति परमाणवः / किं चान्यदुत्तरदोष उच्यते-अभ्युपगम्याप्येवंविधालम्बनतायां चेत्यादि यावत्वदुक्तप्रत्यक्षालम्बनवदिति / अन्यथाविद्यमानाः परमाणवोऽतीन्द्रियत्वेन विद्यमानाः समूहाभासस्यापि ज्ञानस्य कारणं भवन्तीत्येवंविधालम्बनतायां सत्यां धूमोऽग्निप्रत्यक्षज्ञानालम्बनं स्यात् , तथा विद्यमानत्वेऽन्यथाभासस्यापि ज्ञानस्य कारणीभवनात् / धूमत्वेन विद्यमानो धूमोऽग्याभासस्यान्यस्याभासस्यान्याभासज्ञानस्य कारणीभवत्रुपलभ्यत इति पक्षधर्मत्वमस्त्यस्य त्वदुक्तप्रत्यक्षालम्बनवदिति दृष्टान्ते तस्य सपक्षानुगमनं दर्शयतियथा-त्वदुक्तस्य प्रत्यक्षस्थालम्बनं परमाणवोऽन्यथाविद्यमानाः परमाणुत्वेन विद्यमानाः समूहाभासज्ञानस्य कारणं भवन्ति, तथा धूमोऽपि तत्साधर्म्यात्तजनितज्ञानालम्बनस्याग्नेः प्रत्यक्षालम्बनतया व्याप्तत्वात्प्रत्यक्षालम्बनतामात्मनः साधयति / धूमनिमित्ताग्निज्ञानं वा प्रत्यक्षं स्यात् ,तथाविद्यमानत्वेऽन्याभासविज्ञानजनकार्थालम्बनत्वात्त्वदुक्तप्रत्यक्षवत्तत्साधादेव तावदुक्तप्रत्यक्षं महान् महार्थेनाप्रत्यक्षं स्यात् धूमजनिताश्यर्थज्ञानवत् / किं चान्यत्-तस्मादेव हेतोश्चक्षुराद्यप्यालम्बनं स्यात् , एवमयमतिप्रसङ्गदोष एवंवादिनः। यदि कारणमालम्बनं विज्ञानस्याभासस्यापीष्टं ततश्चक्षुरादीन्द्रियाणि चक्षुरादिविज्ञानानामालम्बनानि स्युरन्यथाविद्यमानत्वेऽन्याभासस्यापि विज्ञानस्य कारणीभवनाच्चक्षुरिन्द्रियं चक्षुर्विज्ञानस्यालम्बनं स्याद्रूपादिपरमाणुवत्तज्ज्ञानं वा चक्षुरिन्द्रियालम्बनं स्यात्तजन्यत्वे सत्यन्याभासत्वात्परमाणुजन्यरूपविज्ञानवत् , एवं श्रोत्रादिज्ञानानि / परमाण्वालम्बनमभ्युपगम्यायं दोष उक्तः / न च ग्राह्यस्य नीलादेविषयस्येत्यादि, चक्षुरादि. सग। 2 तथापि ग। 3 न भ क-ख। 4 भवग।