________________ तिविचारणा ] न्यायागमानुसारिण्यलकृतम् / नासमानानेकार्थजन्येन्द्रियस्वार्थेभ्य इत्येतत्सधर्मभ्यः / किमुक्तं भवति ? समानासमानानेकार्थातथाभूतार्थेभ्यः परमार्थसदाकारो लप्स्यते / नीलादिसङ्घातवदिति / अतस्तदुपसंहृत्य साधनमाह-घटः संयुक्तो वियुक्तः परोऽपरः स्पन्दत इत्यादि ज्ञानं प्रत्यक्षम् / स च तद्विषयः प्रत्यक्षः स्यात् , संवृतिसदालम्बनत्वान्नीलादिज्ञानवत् / नीलादिज्ञानं तदर्थश्च न प्रत्यक्षे वा स्याताम् / संवृतिसत्त्वाद् घटादिज्ञानार्थवत् / वाशब्दस्य विकल्पार्थत्वात् / उभयत्र ज्ञानोत्पादकार्थाविशेषस्तत्समर्थयति / त एव हि, ते हि परमाणवो य एव घटादित्वेनाभासन्ते, य एव नीलादित्वेनाभासन्त इति / एवमुभयोर्नीलादिघटादिज्ञानयोस्तुल्ये जनकत्वे तत्कुत एतन्नीलाद्याभासज्ञानं प्रत्यक्षं न घटाद्याभासमिति / स्वरुचिमात्रादन्यत् कारणं नास्तीत्यर्थः / यथैव हीत्यादि यावत्समुदितास्त एवाभासन्त इति / बुद्धावाभासनसामाविशेषाच्च जनकहेत्वविशेषमेव दर्शयति / अत्र च यथा परमाण्ववयवसमुदायता च नीलप्रत्यक्षावभासत्वात् / ज्ञानस्याकारसन्निवेशविशिष्टाः सामान्यत आभासन्ते। तथा घटादिज्ञानेष्वप्याकारविशेषेण समुदितास्त एव भासन्ते, नान्यो घटो नामास्ति यस्तथा भासेत / तथास्थेषु तेन प्रकारेण स्थितेषु रूपादिष्वेव घट इति बुद्धिः प्रवतते प्रज्ञप्तिश्च / एवं तथास्थेष्वेव परमाणुषु नीलादिरूपबुद्धिः प्रवर्तते प्रज्ञप्तिश्चेति / सर्वमुभयत्र तुल्यम् / अत्र परेणोभयोधर्म्यप्रदर्शनार्थमथोच्येत-नीलादिसमुदयेत्यादि / यावत्तदण्वात्मकत्वात्तथा सत्त्वादिति / नीलादिसमुदाये नीलादिद्रव्यसदाकारः परमार्थसदाकारः स विद्यते। किं कारणं ? तदण्वात्मकत्वात्तेषां नीलादीनामण्वात्मकत्वात् / अणूनां द्रव्यसत्त्वात्तत्प्रत्यक्षत्वं न्याय्यं / न्यायादनपेतं न्याय्यं युक्तमित्यर्थः। तद्विषयस्य च ज्ञानस्य प्रत्यक्षत्वं तत्प्रत्यक्षत्वं न तु घटाद्याकारः। न त्वस्ति घटसंख्योत्क्षेपणाद्याकारोऽतत्परमाणुत्वात् तस्याकारस्य परमाणुत्वं तत्परमाणुत्वम् / न तत्परमाणुत्वमतत्परमाणुत्वमतोऽतत्परमाणुत्वात् / ततः किम् ? / तथाऽसत्वात्तेन प्रकारेणासत्त्वात्परमाणुत्वेन तेषां घटाद्याकाराणामसचात् / अत्राचार्य उत्तरमाह-एतच्च तुल्यमुभयत्राविशेषात्परमाणुजन्यत्वादेव नीलादिघटाद्याकारप्रत्यक्षयोः। यथैव तस्मिन् रूपादिसमुदाये घटाद्यनाकारता तदनणुत्वात् / तस्य घटाद्याकारस्यानाकारता तस्याकारस्यानणुत्वात्तथासत्त्वादनणुसत्त्वेन घटाद्याकारणासत्त्वात् / अणुत्वेनैवासत्वादेव रूपाद्याकारस्यानाकारता / अनन्तरोक्तहेतोः सञ्चितस्यैन्द्रियिकत्वात्परमाणुसमुदायस्यैन्द्रियकत्वात्तस्यैवालम्बनत्वात् , असश्चितस्यातीन्द्रियत्वादत एवानालम्बनत्वात्तदनणुत्वात्तस्य सश्चितस्यैन्द्रियकस्यालम्बनस्यानणुत्वात्तथाऽसत्त्वादनणुत्वादेवासत्त्वादन्यथाविषयत्वात्पर, भेंन क-ख। 2 °षात् तत् ख। 3 यस्मिन् ग। 5 °स्यानण° क-खा। न.प. "