________________ नेयचक्रम् / [चक्षुर्विज्ञानसमगीच सञ्चयोऽर्थः / किं कारणं ? नार्थः सञ्चय इति चेत् संवृतिसत्त्वात् / संवृतिसत्त्वमद्रव्यत्वात् / वान्ध्येयवत् , अत एतस्मात्कारणानासाधूत्पत्तिप्रत्यय इष्यते / उत्पत्तौ प्रत्यय आलम्बनप्रत्यय इत्यर्थः / सोऽसत्त्वान्नेष्यते / इतिशब्दो हेत्वर्थे / एतस्मात्कारणात्सोऽर्थो न विशेषणेन विशेष्यः / तस्माद्विशेषणविशेष्यत्वाभावात् / ज्ञानत्वप्रत्यक्षत्वाभ्युपगमहानिः / ज्ञानं प्रत्यक्षमित्येतदभ्युपगतम् / विशेषणस्य विशेष्यस्य चार्थस्याभावात्किं विषयं ज्ञानं प्रत्यक्षं च स्यादिति हीष्यते, किं चान्यत् 1 / चक्षुरादिषु ज्ञानेषु अत इत्यादि, यावदनुमानविरोधः चक्षुरादीन्द्रियबुद्धयः स्वविषयनिभासस्वरूपमात्रा एव ज्ञानत्वाद्वस्तुत्वात्सत्त्वात् , तैमिरिकादिज्ञानवत् ,अतश्चक्षुरादिविज्ञानेषु स्खनिर्भासव्यतिरिक्तप्रमेयाभावः ततश्च तैमिरिकस्य केशोन्दुकमशकमक्षिकादिचन्द्रादिदर्शनवत् सा त्वसत् प्रतिपत्तिरेव, असदवस्तु सद्वस्त्विति प्रतिपत्तितः,तसाद्धेतोरसत्सत्प्रतिपत्तेविपर्ययप्रतिपत्तेस्तस्य ज्ञानस्याप्रत्यक्षत्वं प्रसिद्धमलातचक्रादिज्ञानवत् ,तेनाप्रत्यक्षत्वेन प्रसिद्धेन त्वयाप्रतिज्ञातं तत्प्रत्यक्षत्वं निराक्रियते / तन्निराकरणादनुमानविरोधः / ननु प्रत्यक्षनिराकरणात्प्रत्यक्षविरोधोऽयं कथमनुमानविरोध? इति / अत्रोच्यते-त्वन्मतेन सपक्षधर्मस्य विपक्षस्योक्तानुमानेन निराकरणानिर्विकल्पकप्रत्यक्षत्वाभावात् कतमत्तत्प्रत्यक्षं येन निराक्रियेत,यद्वा निराकुर्यात् / अतोऽनुमानविरोध एवायम् / किं चान्यत् / घटसंख्योत्क्षेपणसत्ताघटत्वाद्याकारज्ञानानामपि प्रत्यक्षत्वप्रसङ्गः। कथमिति चेदुच्यते-यथा तत्रेत्यादिदार्टान्तिकमुक्त्वा दृष्टान्ततत्साधयं च वर्णयति-यथा चात्र भवन्मतेन समानासमानानेकार्थजन्येन्द्रियस्वार्थात् समानेन नीलादिवर्णनानेकेन परमाणुसङ्घातलक्षणेनार्थेन जन्य इन्द्रियस्वार्थो नासाधारणो वस्त्वभिमतस्वलक्षणस्वार्थः कस्मात् ? तत्त्यक्त्वा तत्रानेकार्थजन्यत्वात् / स्वार्थसामान्यगोचरं ज्ञानमिति वचनादन्यादृशः स्वार्थस्पष्टत्वात् तादृशः स्वार्थाद्यदुत्पद्यते ज्ञानमित्यभिसंभन्त्स्यते तदपि च तैमिरिकवदप्रमाणम् / तिमिरे भवं तैमिरं / यथा द्विचन्द्रदर्शनं / तथा समानेनाप्यनेकवर्णमणिसमूहेन जन्य इन्द्रियस्वार्थों मेचकस्तस्मादुत्पद्यमानं तदपि च तैमिरिकवदप्रमाणम् / कुतः ? यस्मात्समानानेकार्थात्तसादतथाभूतार्थात्तन्नादिसछातजन्यमुत्पाद्यते / अतथाभूतार्थत्वमस्य संवृतिसत्वम् / अत आह-समानासमानानेकार्थातथाभूतार्थान्नीलादिसङ्घातात् प्रज्ञप्तिसतः / आलम्बनात्संवृतिसतः परमार्थसदाकारो नीलादिको लभ्यते, यतस्त एव हि परमार्थसन्तः परमाणवो नीलादित्वेनाभासन्त इति / तद्विषयं ज्ञानं नीलादि प्रत्यक्षमिष्टं / तथा निराकतेभ्यः सत्पक्षत्वेन घटसङ्ख्याद्याकारेभ्यो घटसंख्योत्क्षेपणसत्ताघटत्वाद्याकारेभ्यः प्रत्यक्षज्ञानजनकार्थसधर्मभ्यः कतमेन साधम्र्येण सधर्मभ्य इति चेदुच्यते-समा