________________ तिविचारणा] न्यायागमानुसारिण्यलकृतम् / मया तत्त्वया स्वाग्रहरक्तमनसा स्वसमयप्रसिद्ध्यनुपातिना नेष्यते / प्रत्यक्षत्वमेवेप्यते / ततस्तस्मात्साधादनुमानं वा प्रत्यक्षं स्यादनेकार्थजन्यत्वात् / खार्थे सामान्यगोचरत्वादित्येताभ्यामेव हेतुभ्यां प्रत्यक्षवदित्येते अपि द्वे साधने लेशेनोनीते न स्फुटमिति / किं चान्यदेतस्सादेव हेतुद्वयाद्विषयैक्यापत्तेः प्रमाणैक्यमिति / अत आह-द्वयमप्येतदेकमेवैकलक्षणत्वात्स्वसामान्यलक्षणं ह्येकमेव वस्तुविषयोऽस्य प्रमाणद्वयस्येत्युक्तविधिना प्रसक्तत्वात् / प्रत्यक्षमेवैकं प्रमाणं तदुभयं स्यादनेकार्थजन्यसामान्यैकगोचरत्वात् / चक्षुरादिद्वाराजन्यप्रत्यक्षभेदप्रत्यक्षत्ववदनुमानमेव वा स्यात् , तत एव कारणाद्धूमकृतकत्वाद्यनुमिताम्यनित्यादिज्ञानानुमानवत् / इदानीं वसुबन्धोः स्वगुरोस्ततोऽर्थाद्विज्ञानं प्रत्यक्षमिति ब्रुवतो यदुत्तरमभिहितं परगुणमत्सराविष्टचेतसा तत्त्वपरीक्षायां परमोदासीनचेतसा तु येन केनचिदभिप्रायेण स्वमतं दर्शितमेव दिन्नेन वसुबन्धुप्रत्यक्षलक्षणं दूषयता, तस्य पुनरर्थो योऽस्तु सोऽस्तु किं नोऽनेन ? / इदमेव तावदस्तु रूपादिष्वालम्बनार्थो वक्तव्य इति विकल्प्य विकल्पद्वये दोषजातं तल्लक्षणे प्रक्रान्तम् , तत्तवापि समानमिति प्रतिपादयिष्यन्नयचक्रकारः सविशेष तन्मतविरोधहेतु स्ववचनजनितमाह__ 'अनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायाम्' इत्यादि शिष्याचार्ययोस्तुल्योत्तरत्वात् / स्वार्थ इति / नीलादिः स एव विकलसामान्यमनेकार्थजन्यत्वात् / अनेकार्थः परमाणवस्तजन्यं नीलविषयं प्रत्यक्षमत इन्द्रियस्य स्वार्थ इति / एतस्याननेकार्थजन्यत्वाच / स्वार्थसामान्यगोचरतायां यदाभासं तेषु ज्ञानमुत्पद्यते / तथा त आलम्बनं रूपादय इति नीलपीतादित्वेन यथैवाभासन्ते तथैवालम्बनमित्येतदिष्टम् / किं कारणम् ? त एव नीलादिपरमाणवो नालम्बनमिति चेत् , उच्यते-प्रत्येकं परमाणुरूपस्य वुद्धावसनिवेशात् / एकमेकं प्रत्येकं परमाणूनां यन्नीलादिरूपं तस्यातीन्द्रियत्वाझुद्धावसन्निवेशः। तस्मात्कि प्राप्तम् ? / समुदयकृतं तन्नि सतयालम्बनमित्येतत् प्राप्तं, नीलादिरूपस्य तत्समुदायात्मकत्वात् / एवं च सति परमाणुसञ्चयनीलादिनिर्भासतयालम्बनत्वे सति प्रत्यक्षार्थ एव ज्ञायते / तद्यथार्थसन्निकर्षात् अक्षं प्रति यदुत्पद्यते तद् ज्ञानं प्रत्यक्षमिति ज्ञानमर्थन विशिष्यते / अर्थनेन्द्रियस्य सन्निकर्षादुत्पद्यमानं ज्ञानमक्षं प्रति वृत्तेः प्रत्यक्षमिति ज्ञानेऽर्थस्य विशेषणता,सन्निकर्षाद्वाक्षं प्रति यो वर्ततेऽर्थः स प्रत्यक्षः / अथेन्द्रियसन्निकर्षादक्षं प्रति वृत्तेः प्रत्यक्षमितत्वादुपचरितवृत्तिरर्थोऽक्षेण विशिष्यत इति / अत्रोत्तरमुच्यते-न तदुपपद्यते प्रत्यक्षं तस्यार्थस्याभावात् , एवं च सतीत्युच्चार्य सञ्चयः प्रसक्तः इत्यभ्युपगम्य दूषयति-यसान्न 1 स्वग्राह ग। 2 मा ग। स्याम क-ख।