________________ नयचक्रम्। [चक्षुर्विज्ञानसमङ्गीतदभिमतप्रत्यक्षमप्रत्यक्षमनेकार्थजन्यत्वादनुमानवद् , दृष्टान्तेऽनुमानेनैकार्थजन्यत्वात् सिद्धमिति मा मंस्थाः / यस्सादनुमानमपि पक्षधर्माद्यनेकार्थजन्यं पक्षधर्मः। सपक्षानुगमो विपक्षव्यावृत्तिरित्यनेकार्थेन जन्यतेऽग्न्यनित्याद्यनुमानज्ञानं तथेदमपि प्रत्यक्षमनेकपरमाण्वर्थजन्यमिति ज्ञापकः स हेतुरिति चेत् , स्यान्मतम्-अनुमाने पक्षधर्मादिरनेकोऽप्यर्थो धूमकृतकत्वादिरग्निनित्यादिज्ञानस्य न कारकः। किं तर्हि ? पूर्वप्रसिद्धमेवाविनाभाविनं सम्बन्धं सारयतीति ज्ञापकः स हेतुः, इतरस्तु प्रत्यक्षज्ञानस्य कारकोऽर्थस्तस्माद्वैधादिदृष्टान्तः / इत्येतच्चायुक्तम् , अत्रापि तुल्यत्वात् / कारकादपीत्यादि अनुमानमपीति वर्तते / अनुमानमपि स्वार्थकारकादनेकरसादाजायते / कस्मात् ?, साध्यसाधनधर्मान्वयैकान्तवतः। पक्षधर्मसपक्षानुगमविपक्षव्यावृत्तिमत ऐकान्तिकात्, अग्निमान् प्रदेशो धूमवत्त्वाचुल्लीमूलवत् , . अनित्यः शब्दः कृतकत्वाद् घटवत् , न नदीवन्नाकाशवदिति / कारकहेतुतैवानुमानेऽपि तदर्थस्य / इतर आह-नासंचितानेकार्थजन्यत्वादनुमानेनैतत्साधर्म्यमुपपद्यते / करसादसंचितानेकार्थजन्यत्वात् / अनुमानस्य सञ्चितानेकार्थजन्यत्वाच प्रत्यक्षस्य देशकालभिन्नसन्निहितासनिहितार्थविषयं ह्यनुमानं तद्विपरीतविषयं प्रत्यक्षमिति / अत्रोच्यते-ननु धूमादिरपि सञ्चय एव गृहीतोऽग्यादिकमणूनिव गमयति / नन्विति प्रसिद्धानुज्ञापने, ननु धूमोऽग्निमत्त्वविशिष्टप्रदेशधर्म्यश्चतुर्भूतसङ्घातोऽन्वयव्यतिरेकसहितोऽग्निमत्त्वविज्ञानं प्रदेशे जनयति, .अणुसमुदय इव रूपविज्ञानं गमयति / अग्निर्न ज्ञानं जनयतीति ज्ञानोत्पत्तौ कारकत्वाव्यभिचारादुभयोति हेतुप्रत्यय इत्यादि / स्यान्मतम् / हेतुः प्रत्ययो निमित्तमालम्बनमित्यर्थः / असौ धूमोऽनुमाने निमित्तमधिपतिप्रत्ययः / कल्पनायां हेतोनिर्विकल्पं हि ज्ञानमधिपतिप्रत्ययं प्रत्यक्षं न तथानुमानमतो वैधोत्र दृष्टान्त इति चेत् / एवं चेन्मन्यसे, अत्र परेणैवोत्तरं वाचयितुकाम आह / अथ कथमित्यादि, इदमसिद्धं द्रष्टव्यम् / कथं साधनानधिपतिधूम इत्यनालम्बनमित्यर्थः / इतर आहइन्द्रियाविषयत्वात् / हेतुप्रत्ययस्यार्थस्याग्यादिलक्षणस्य / आचार्य आह-"ननु सञ्चयनहेतुप्रत्ययोऽप्यनधिपतिरिन्द्रियविषयत्वात् / परमाणुसञ्चय एव प्रत्यक्षो ऽप्यनधिपतिस्तस्मादेव हेतोरिन्द्रियाविषयत्वात्सञ्चयस्य परमाणुव्यतिरिक्तस्यासत्त्वात्" इति विस्तरेण प्रागभिहितमेतत् / तस्मात्सर्वथा तुल्यमुभयं कारकत्वेनेति / तथा स्वार्थे सामान्यगोचरत्वादनुमानवदप्रत्यक्षमित्येतस्मिन् साधने कारकहेतुत्वप्रतिपादनार्थः प्रपञ्चस्तुल्य इत्यतिदिशति / अनुमानं वेत्यादि / वाशब्दो विकल्पार्थः / यदि प्रतिपादितमिदं युक्तिवचनात्प्रत्यक्षस्य त्वदभिमतस्यानुमानत्वं १°त्तम ग। २°मनधि ग। 3 °वत्ता क / ग /