________________ तिविचारणा] न्यायागमानुसारिण्यलङ्कृतम् / मात्र व्यवहारप्रसिद्धाम्बुवत् तदपि संवृतिसत् परमार्थसदन्यथा एतद्विपरीतलक्षणम् / स्वत एव विविक्तरूपं यद्विद्यते रूपं रस इत्यादि तत्परमार्थसत् प्रत्यक्षगोचरमिति / एतदपि परमार्थसदित्यभिमतं संवृतिसल्लक्षणानतिवृत्तेरसदेव / यथोक्तविधिना संवृतिसदेव सर्वमपीत्यत्रापि ज्ञापकोदाहरणं तत्संवाद्यभिहितं रज्वां सर्प इति ज्ञानं तावदेव रज्वां सर्प इति विपर्ययज्ञानं भवति यावदस्मदादिविशेपलिङ्गादर्शनं / विशेषतस्तु तदवधारणदृष्टौ सत्यां प्राक्तनं सर्पदर्शनं जायतेऽनर्थकं / सापि रज्जुबुद्धिस्तदवयवे दृष्टौ सत्यां यथा सर्प इति ज्ञानमनर्थकं तथानर्थिका / तत आह-तददृष्टौ तत्रापि सर्पवद्रजुविभ्रम इति / एवमनया कल्पनया सर्पपिण्डज्ञानानां संवृतिसद्विषयतैवेति साधूक्तमप्रत्यक्षं नीलादिविषयं चक्षुरादिविज्ञानं शाक्यपुत्रीयं भ्रान्तिवदिति / एवं तावत्कल्पनापोढप्रत्यक्षलक्षणसंचितालम्बनपञ्चविज्ञानकायग्रन्थविरोधोद्भावनचोद्योपक्रमायातपरिहारार्थस्यानेकार्थजन्यस्वार्थसामान्यगोचरवाक्यस्य सप्रसङ्गो दोषोऽभिहितः / अधुना यदेतदनेकरूपेत्यादिग्रन्थचोद्यद्वारायातकल्पनात्मकपरिहारार्थ यथोक्तमायतनखलक्षणं प्रतीति तत्कथमित्येतत्परिहारार्थस्य तस्य वाक्यस्य दोषं वक्तुकामः परपक्षमेव तावत्प्रत्युच्चारयन् व्याचष्टे सूरिष्टीकाकारलिखितं लिखन् यावदेकाकारपरिकल्पनादिति गतार्थम् / उत्तरं तत्रापि / अपिशब्दात्पूर्वमिन्नर्थविकल्पे व्याख्याता दोषास्तेऽत्रापि सम्भवन्ति / कथमिति चेत् ? / अनेकार्थविषयकप्रत्ययत्वात् / अनेकोऽर्थः परमाणवः / तद्विषय एक इति प्रत्ययः / सोऽनेकार्थविषयैकप्रत्ययस्तद्भावादनेकार्थविषयैकप्रत्ययत्वात् , तेषु परमाणुषु प्रत्येकमतीन्द्रियेषु समुदितेष्वसमुदितेषु वा प्रत्ययाभावात्तत्समूहेऽनेकार्थविषयः स एवैकः प्रत्ययः समूहालम्बनतदाभासज्ञानोत्पत्त्यभ्युपगमात् / अर्थभेदविषयज्ञानाभ्युपगमे च 'विजानाति न विज्ञान'मित्यादि विरुध्येत / तस्मादेकः प्रत्ययोऽनेकार्थविषय एकार्थरूपस्तत एव सामान्यरूपस्तदतद्विषयतया तदतदभूतसामान्यगोचरः, ततश्चास्खलक्षणे विषयस्त एव हि परमाणवः स्वलक्षणं न तत्समूहसामान्यत्वात् , अत एव संवृतिसञ्चय स तस्मादखलक्षणविषयत्वात्कल्पनात्मको निर्देश्यश्चेत्येवमाद्यस्माभिः प्राक् प्रक्रान्तं तत्सुतरामशेषं त्वयैव भावितमनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमिति परिहारं ब्रुवता / किं चान्यत्-भवदभिमतप्रत्यक्षस्याप्रत्यक्षत्वसाधने च द्वे लेशेनोनीते त्वयैव / मा भूत् स्वाभ्युपगमदोषव्यात्तिरिति कुशलजनतर्कगम्येन स्फुटैकतमे द्वे अनेकार्थजन्यत्वात् / स्वार्थे सामान्यगोचरत्वादिति चैते द्वे / तत्र तावत् प्रथमं साधनं 1 प्रत्यूहे ग / 2 दृश्यतां 60 पृष्ठम् / 3 भाषित क-ख / 4 व्यति' क / व्यतिरिक्तऽ ख /