________________ नयचक्रम् / . [चक्षुर्विज्ञानसमङ्गीसंचयस्साणूनां च सिद्धं प्रत्यक्षज्ञानस्य, तसात् प्रत्यक्षज्ञानं नोत्पद्यते निरालम्बनस्वात् खपुष्पवत् / अतःप्रत्यक्षस्य निरालम्बनस्य खपुष्पवदनुत्पत्तेरुक्तोपपत्तिविधिना कल्पनापोढस्य सविषयस्य प्रत्यक्षस्य ज्ञानस्य वाभावे प्रतिपादिते स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधीपत्तेश्च कल्पनापोढं प्रत्यक्षमित्येतल्लक्षणमनर्थकं स्याल्लक्ष्यस्याभावात् खरविषाणस्य कुण्ठतीक्ष्णादिनिर्णयवत् / अभ्युपेतेऽपि तु विषये दोषः। स चाभ्युपगम्यमानोऽपि विषयः सञ्चय एव संभाव्येत, न परमाणवोऽतीन्द्रियत्वात् / स चालम्बनप्रत्ययो ज्ञानस्य सञ्चयस्तस्मिन्नभ्युपेतेऽपि तु संचितालम्बनप्रत्ययत्वेनैवास्य प्रत्यक्षता सिद्ध्यति त्वन्मतेनैव तदाभासत्वात् / तदाभासत्वं कल्पनात्मकत्वात् / उक्ता च कल्पनात्मकता तदुभयमपि भ्रान्तिज्ञानात्मकत्वात् / भ्रान्तिः संज्ञासंख्यासंस्थानवर्णान्यथाकल्पनात् / संज्ञा च सङ्ख्या च संस्थानं च वर्णं च तेषां तैर्वान्यथा कल्पनादन्यथा प्रतिपत्तिरेव ते कल्पनाभिमता / संज्ञासंस्थानसंख्यावर्णानामन्यथा प्रतिपत्तेमगतृष्णिकाप्रत्ययंवदलातचक्रप्रत्ययवत् द्विचन्द्रप्रत्ययवत् कामलोपहतचक्षुषो नीलरूपपीतप्रत्ययवदिति यथासंख्यं दृष्टान्तः / यथाक्रमं च हेतोर्वा भ्रान्तिज्ञानात्मकत्वे साध्ये, ततश्च प्रत्यक्षत्वाभावे साध्ये तत्समर्थनार्थ उत्तरो ग्रन्थः। तदर्थमुपसंहृत्यान्ते साधनम् , अत इंदं नैव प्रत्यक्षमतथाभूतार्थाध्यारोपात्मकत्वात् भ्रान्तिवत् नावारूढस्य नीरवृक्षधावनदर्शनात्मिकामेकां क्रियाभ्रान्ति मुक्त्वा प्रोक्तचतुर्विधभ्रान्तिवत् / उपनयस्तु व्यवहारप्रसिद्धस्य परमाणुनीलत्वग्रहणस्य सर्वत्रातथाभूतार्थप्रतिपत्तिसाधयात् / अथवा तत एव हेतोः संवृतिसंज्ञानवदप्रत्यक्षम् / तद्व्याख्या यथा-गोपालेत्यादिना दृष्टान्तं समर्थ्य तथा संवृति सतीत्यादिना दार्शन्तिकसमर्थनं / संवृतिसल्लक्षणे ज्ञापकमाह-'यस्मिन् भिन्ने०' श्लोकः / यसिन् घटे भिन्ने कपालशकलशर्करादिभावेन घटाभिमताद्वस्तुनोऽन्येष्वप्यपोहेषु कपालादिषु न घटबुद्धिरस्ति / तदग्रहे तद्बुद्ध्यभावाद् अमुल्यभावे मुष्टिबुद्धिवद् / अतोऽङ्गुलिव्यतिरेकेण मुष्ट्यभाववत् कपालादिव्यतिरेकेण घटाभाव इति संवृतिसन् घटः / एवं क्रियासंभवे क्रिययापोढे, यत्रापि क्रिययापोहो न संभवति तत्रापि धियापोहेऽन्येषां रूपादीनां घटस्य समुदायान्न तद्धद्धिरस्ति / रूपादिसमुदायस्य च परमाणुरूपाद्यपोहेन तद्बुद्धिरस्तीति वर्तते दृष्टान्तोऽम्बुवत् / एकमिन्नपि जलबिन्दौ जलबुद्धिदर्शनात् / रूपादिषु पुनर्बुद्ध्यापोढेषु न तोयबुद्धिरस्तीत्येतत्संवृतिसतो लक्षणम् / अथवा यस्मिन् घटे भिन्नेऽवयवशो न तद्बुद्धिर्भवति तद्घटवत्संवृतिसत् / यत्र चाम्बुबुद्ध्यार्थान्तरापोहेन तद्बुद्धिरर्थान्तरनिवृत्तिरूपस्य वस्तुनः वरूपाभावादग्निवाय्वादिनिवृत्ति१°ध प्रस्तुते' क-ख / 2 'द्वयं क-ख / 3 विलोकनीयं 64 तमं पृष्ठम् / 4 °ति स च ग /