________________
[है० १.४.५२.]
प्रथमः सर्गः ।
११९
५ सह्य ६ व(म?)लय ७ हिमवद्भ्यो ८ दिभ्यश्च कुलाचलेभ्यश्च सकाशात्सम्यक्पालनया भूभारस्यात्मनि निक्षेपाङ्कुरं भूभारं नयत्यात्मानं प्रापयति यस्तस्मिन्धूर्नियां सकलभूभारघर इत्यर्थः । अष्टभिर्दिग्गजैः कुलाचलैश्च भूयित इति कविरूढः । अथ च यो धूर्नीः कार्यप्राग्भार करणक्षमः स्यात्तस्मिन्सर्वोप्यनुकूलः स्यादिति ॥
नियाम् । इत्यत्र "निय आम्” [ ५१ ] इत्याम् ॥
अष्टाभ्यः । अष्टभ्यः । अत्यष्टाः । अत्यष्टानः । इत्यत्र "वाष्टन आः स्यादौ " [ ४२ ] इति वा आकारः ॥
४
अष्टावष्ट तथात्यष्टावस्य भावान्विजानतः ।
कीर्त्यात्यष्टौ कृताः क्ष्मांशा दिशोष्टाष्टौ नगाः सिताः।। १९६॥
१९६. अस्य राज्ञः कीर्त्या सिताः श्वेताः कृताः । क इत्याह । अष्टावतिक्रान्ता अत्यष्टौ नवेन्द्रद्वीप १ कशेरुमत् २ ताम्रपर्ण ३ गभस्ति मत् ४ नागद्वीप ५ सौम्य ६ गन्धर्व ७ वरुण ८ कुर्मांरीद्वीपाख्याः ९क्ष्मांशाः पृथ्वीखण्डानि । तथाष्टावैन्यानेयीयाम्यानैरृतीवारुणीवायव्याकौबेर्यैशान्यो दिशः। तथाष्टौ नगाः कुलाचलाः । यतोष्टौ तथाष्ट तथात्यष्टौ नव । सर्वसंख्या पञ्चविंशतिं भावांस्तत्त्वानि विजानतो वेदितुः । सांख्यमते हि पञ्चविंशतिः पदार्था वर्ण्यन्ते । तथाहि सत्वरजस्तमसां साम्यावस्था प्रकृतिः १ तदुद्भूतं महत्तत्त्वं २ तस्मादहंकारः ३ तस्माच्च स्पर्शन ४ रसन ५ घ्राण ६ चक्षुः ७ श्रोत्र ८ नामानि पश्च बुद्धीन्द्रियाणि । पायु ९ उपस्थ १० वचः ११ पाणि १२ पादा१३ ख्यानि पञ्च कर्मेन्द्रियाणि । तथा मनः १४ । तथा रूप १५ रस
ง
९
O
१ एफ् श्च स २ ए °ति रू. ३ एफ् अत्यष्टानः । इ. ४ ए सी डी °ति आ. ५ सीडी प १ सकेरु ८ सी डी एफ शति भा.
६ बी मारद्वी ९ सी डी एफ तिप
Jain Education International
७ए एफू नैऋती. १० सी डी णि म.
For Private & Personal Use Only
www.jainelibrary.org