Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
५२०.
ध्याश्रयमहाकाव्ये [चामुण्डराजः ] हिंसत्सु च व्यत्यहिनद्यत्यूहेस्त्रं वहत्सु च ।
पठत्सु व्यत्यपाठीच वदत्सु व्यत्युवाद च ॥ १०॥ .." ९-१०. स वल्लभराजः सवयस्सु मिनेषु बालेषु क्रीडत्सु बालक्रीडया रममाणेषु सत्सु व्यतिचिक्रीडे विनिमयेन रेमे । तथा सवयस्सु क्रीडावशाक्रीडनकं गेन्दुकादि हरत्सु शङ्कुलादिनापनयत्सु क्रीडनकं व्यतिजढे च । तथा सवयस्सु नत्सु क्रीडावशान्मुंट्यादिना प्रहरत्सु व्यतिजघान च । तथा सवयस्स्वत्रं बालोचितं लघु चापादि वहत्सु शस्त्रविद्याभ्यासार्थं धारयत्सु व्यत्यूहे च। तथा हिंसत्सु कौतुकेनास्त्रविद्याभ्यासपरीक्षया वा पक्ष्यादि विनाशयत्सु व्यत्यहिनञ्च । तथा पठत्सु शब्दविद्याद्यधीयानेषु व्यत्यपाठीच । तथा वदत्सूक्तिं कुर्वत्सुं व्यत्युवाद च ॥ यद्यपि क्रियाणां साध्यैकस्वभावानां व्यतिहारो न संभवति तथापीतरचिकीर्षितायां क्रियायामितरेण यद्धरणं करणं स क्रियाव्यतिहार इति यदा सवयसः क्रीडादि चक्रुस्तदा कुमारोपि. चकारेत्यर्थः ॥
तं व्यतीयुगुणा लक्ष्म्यो व्यत्ययुस्तस्य चाभयैः।
वृत्तैर्व्यत्यहसन्धाग्यो व्यत्यपश्यन्परस्परम् ॥ ११ ॥ ११. गुणास्तं वल्लभराजं व्यतीयुर्विनिमयेन जग्मुः । सर्वेपि गुणास्तमुपस्थिता इत्यर्थः । तथा लक्ष्भ्यः सर्वसंपदस्तं व्यत्ययुः। तथा तस्य वल्लभस्याभयैर्भीरहितैर्वृत्तै-पोरैर्मन्दुरास्थमर्कटकर्णग्रहणादिभिर्धात्र्य उ. १ बी सस्सु च. २ बी सी डी त्सु व्युत्यु. ३ सी डी लक्ष्योव्य'.
१ ए यत्सु की. २ ए °नकगे'. ३ सी त्सु सकुलयादि . डी त्सु संकुलयादि. ४ बी Gives margin ally पुष्पादिना besides. ५ ई पक्षादि. ६ डी द्याधी'. ७ बी सु व्युत्यु'. ८ ए बी सी डी यद्वर. ९ सीडी वा स०.१० डी येज'. ११ बी लक्ष्म्याः स. १२ ए बीई रैन्दु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org