Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 821
________________ [ है० ५.१.९.] दशमः सर्गः। ८१३ मित्रैरिव स्नेहातिरेकादालिङ्गितः । किं वोपासितो बान्धवैरिव सदा समीपावस्थानेन सेवितः । किं वाधिशयितः परिचितलोकैरिव सुखवार्तालापेनाश्रितः । अथ वानूषितः प्रेष्यैरिवोनुगमनादिनानुसृतः । किंभूतैर्दयितामाश्लिष्टैः सभारित्यर्थः । तथा नभोधिशयितैराश्रितैस्तथा स्वं यानं विमानमध्यासितैस्तथा लक्ष्मी श्रीदेवीं शश्वदनूषितैरर्नुसृतैस्तथामुदमुपारूढैराश्रितैस्तथा त्वरामौत्सुक्यमास्थितैराश्रितैः ॥ शार्दूलविक्रीडितं छन्दः ॥ अविभक्तचित्तैः सुजनैरुपस्थितो जननीविजातैर्वनुजीर्णकल्मषः। स विजात उा प्रविभक्त उन्नति न तपोनुजीर्णः प्रकृतो न च स्मयम् ॥ ८९ ॥ ८९. स कर्णः सुजनैः पुरप्रधानलोकैरुपस्थितो वर्धापनकसूचकवस्त्राापढौकनेनाश्रितः । किंभूतैः । सद्भिः । जननीविजातैर्नु । एकमात्रा प्रसूतैरिव सहोदरैरिवाविभक्तचित्तैमिथोभिन्नमनोभिः । यतः कीहक् सः । उामुन्नतिमभ्युदयं विभक्तो विभागेन स्थापितवान् । ईटैकुंत इत्याह । यत उन्नतिं पुत्रलाभवररूपमभ्युदयं विजातः प्रसूतः । ईदृशोपि कुत इत्याह । यतो नु जीर्ण लक्ष्मीप्रसादेन क्षयं नीतं कल्मषं १६ १ ए न विस्म. १ ए वाभूषि. २ ए °वामुग. ३ बी नुश्रितः. सी डी नुधृतः. ४ ए तागाश्लि०. ५ ए श्रियितैतथा. ६ ए नुमृतै. बी नुश्रित'. ७ ए सी डी णः स्वज. ८ ए°नीनुजा. ९ ए °मात्रोन्न. १० ए र्व्यापुन्न. ११ सी °न् । इक्रुत°. ए ईक्रुत. १२ बी दृक्कुत. १३ ए भपुत्रलाभव. १४ ए सी जात प्र. १५ ए यं कल्मषं निपु . १६ सी षं निपु. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 819 820 821 822 823 824 825 826 827 828