Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 819
________________ [ है०५.१.५.] दशमः सर्गः। ८११ धत्सेजयं रुच्यमव्यथ्यभव्ये वास्तव्या चेन्मेसि चित्ते तदानीम् । जन्यं रम्यं सूनुना जन्यरम्यापात्याप्लाव्यस्फातिनापात्यमझे ॥८६॥ ८६. अव्यथ्येषु मुनिषु भव्या रक्षकत्वेन प्रधाना यद्वाव्यध्या निर्भया च सा भव्या च हे अव्यथ्यभव्ये लक्ष्मि चेत्त्वं रुच्यं मनोज्ञमजर्यमार्यसंगतं धत्से तथा चेन्मे चित्ते वास्तव्या वसन्यसि भवसि तदानीं सूनुना जन्यमुत्पत्तव्यं तथाङ्के ममोत्सङ्गे पात्यं पतनीयं रम्यं च कूर्चाकर्षणादिना क्रीडनीयं च । किंभूतेन सता । जन्या जायमाना रम्या मनोहरापात्यागच्छन्त्याप्लाव्योच्छलन्ती स्फातिवृद्धिर्यस्य तेन त्वत्प्रसादात्पुत्रस्योत्पत्तिवृद्धिश्च स्तादित्यर्थः । शालिँनी छन्दः ॥ गान्धारगर्यजनगेययशोभिराप्ला व्याशेन वत्स भवतस्तनयेन भव्यम् । लक्ष्मीरिति प्रवचनीय तोक्त्युपस्था नीया जगत्प्रवचनीयगुणा तिरोभूत् ।। ८७ ॥ ८७. लक्ष्मीस्तिरोभूत् । कीदृशी । ऋतोक्तयः सत्यवचनान्युपस्थानीयाआराधिका यस्याः सा। यद्वा ऋतोक्तिभिरुपस्थानीयाराध्या । तथा जगतां प्रवचनीयाः कीर्तनीया गुणा यस्याः सा । तथा प्रवचनीया वदन्ती सती । किमित्याह । हे वत्स भवतस्तनयेन भव्यमुत्पत्तव्यम्। १ बी त्सेजयं रु. २ ए व्यसरफा. ३ सी स्फाटिना. ४ ए ययन'. ५ ए °भिसप्लाव्याशैन. ६ ए °येयेन. ७ सी ऋत्योक्त्यु'. १ ए कक्षो प्र. २ बी गते ध. ३ ए तथीके समो. ४ सी मान्या र. ५ ए स्य-व. ६ ए बी तिवृद्धि'. ७ ए श्च तादि. ८ एलिनी छ'. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 817 818 819 820 821 822 823 824 825 826 827 828