Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 775
________________ [ है० ४.४.२६.] दशमः सर्गः । ७६७ अध्यैष्ट यांस्तान्पुनरध्यगीष्टाध्यजीगपत्स्त्रैणमितश्च रासान् । हल्लीसमध्यैष्यत चेद्भवत्यध्यगीष्य इत्याशु मिथो ब्रुवाणम् ॥२२॥ २२. इतोस्मिन्वर्षाऋतौ स्त्रैणं यान् रासानध्यैष्ठापाठीत् । तानासान् गेयकाव्यविशेषान्पुनर्भूयोप्यध्यगीष्टाध्यजीगपञ्चान्यस्त्रैणमेव कर्मापीपठच्च रासान्स्वयं द्विस्त्रिर्वोच्चार्यान्यस्त्रैणेनोचारयामासेत्यर्थः । वृष्टौ हि स्त्रियः प्रमुदिता रासान्ददति । कीदृक् । मिथोन्योन्यं ब्रुवाणम् । किमित्याह । चेद्यदि भवती वं हल्लीसं नारीणां मण्डलीनृत्तमध्यैष्यताशिक्षयिष्यत तदाहमपि हल्लीसमाश्वध्यगीध्ये शिक्षिष्य इति । केचिद्भूतेपि हेतुफले क्रियातिपत्तिमिच्छन्ति तन्मतेत्र क्रियातिपत्तिः ॥ मूर्थीप्रिया मेत्यवदंश्चिरायाध्यायन्निरायन्पथि कष्टमासन् । पान्थास्तदा व्योम्नि यदा पयोद आटीद्वलाकाततिराटदारात् ॥२३॥ २३. यदा व्योम्नि पयोदो मेघ आटीप्रससार तथारान्निकटे बलाकाततिराटदेभ्राम्यंत्तदा पान्थाश्विरायाध्यायन्नस्मरन्नवदंश्च । किमित्याह । प्रिया जातावेकवचनम् । वल्लभा मा मू दस्मद्वियोगे मा विचेतीभूदिति । अत एव निरायन्यस्मिन्देशे गता आसंस्ततो निर्गता अत एव च पथि जलदुर्गत्वात्कष्टमासन् ॥ न चेद्धनाटिष्य इहाभविष्यं कथं तृषाहं भविता विहस्तः । चिरंतदास्स्वेति वदन्किलास्ते स्म चातकः पत्रपयोपि लिप्मुः॥२४॥ २४. चातक आस्ते स्म तस्थौ । कीहक्सन् । वदन् किल मेघदर्श१ई पस्त्रैण०. २ ए सी मध्येष्य'. ३ बी यत्पथि. १ए पात्पुन.२ ए मध्येष्य'. ३ ई 'यिक्षत. ४ सी यति तदा . ५ ए शिष्य. ६ ई ते क्रि. ७ सी प्रशसा. ८ बी तदारा. ९ सी दवा. १० ए म्यस्तदा. ११ ए तस्वौ । की. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828