Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 816
________________ ८०८ व्याश्रयमहाकाव्ये [कर्णराजः] इयं विशिष्टाशिषदलवासे तवार्यशीः कामगवीत्वमाशीः । अक्रूतमक्ष्मापितपादमेतद्गजेन्द्रयानं दिदिवत्प्रयातम् ॥ ८३ ॥ किं क्रूय्यते वा विनिषेव्यसे त्वं सहोदरैः कीर्तितसेवनैर्नु । मां प्रणिस्ते घनघात्यविघ्नो दानीय एषोपि जनस्तवाही ॥८॥ ८२-८४. हे अब्जवासे लक्ष्मि अकीर्ण संबद्धं ते वचस्तुष्टास्मीत्यादिगीराह्लादकत्वात्सुधौं न्वमृतमिवोद्गिरति क्षरति तथा ते मुखं पूर्तेन्दुरुचिं परिपूर्णचन्द्रलक्ष्मी जिहीर्षु पूर्णेन्दुतुल्यं मुखमित्यर्थः । तथा नखश्रीरत्यारक्तत्वादिगुणैः कौस्तुभता कौस्तुभमणित्वात्मनः पोपूर्यतेत्यर्थ पोषयति । तथा करौ मार्दवादिगुणैः स्वर्दुमपल्लवत्वं पारिजातकिशलयतां स्वस्य शिष्टो वदतः । तथार्यान्पुण्यवतः शास्ति वक्तयायशीः । पुण्यपात्रेषु भवन्तीत्यर्थः । इयं प्रत्यक्षा विशिष्टा साधितविशेषकार्याशीरस्तु तत्राप्यहता तवाज्ञेत्यादिनोक्तपूर्व मङ्गलशंसनं कामगवीत्वं सर्वकार्यसाधकत्वात्स्वस्य कामधेनुतामशिषदवोचत् । तथैतत्प्रत्यक्षमतं निःशब्दमक्ष्मापितपादमकम्पितांहि प्रयातं मत्समीपेभिगमनं कर्तृ गजेन्द्रयानमैरावणगति दिदिवजितवत् । वा यद्वा किं नूय्यते वचः सुधामुद्रितीत्यादि किमित्युच्यते। उपमानोपमेयतोक्त्या यद्वचनादेः सकाशाद्भेदो मयोक्तः सोयुक्त एवेत्यर्थः । यतो नु शङ्के कीर्तितसेवनैर्वचनादिव्याजेन ज्ञापितसेवैः सहोदरैः सुधादिभिरेव साक्षात्त्वं सेव्यसे सर्वसहोदरेषत्कृष्टत्वादाश्रीयसे । न तु ते सुधादितुल्यं वचनादि किंचिदस्तीत्यर्थः । सुधेन्दुकौस्तुभस्वर्दुमपल्लवकामधेनु__ १ सी डी तथार्य. २ ए विनेषे'. ३ बी णिस्तै घ. ४ ई ही ॥ अ. १ ए कीर्ण सं. २ ए °मीदि. ३ ए धां तृम ई धां त्वमृ. ४ ई वोद्गर. ५ ए ते सुखं. ६ ए सी लक्ष्मी जि. ७ ई मात्मानः. ८ डी वाहते त. ९ बी पूर्वम°, १० ई ङ्गलं. ११ डी वन्जित. १२ ए सी डी दो नयो'. १३ ए दिरे. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828