Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 796
________________ व्याश्रयमहाकाव्ये [कर्णराजः] __ अौ। सुव्यक्तम् । असू । अस्त । इत्यत्र “वेटोपतः” [ ६२ ] इति नेट् ॥ केचिदस्यतेर्भावेक्ते नित्यमिटमिच्छन्ति । असितैः॥ अपत इति किम् । उत्पतितः॥ , समर्णः । न्यणः । व्यर्ण । इत्यत्र “संनि" [ ६३ ] इत्यादिना नेट् ॥ संनिवेरिति किम् । अदितैः ॥ कश्चित्केवलादपीच्छति। अर्ण ॥ अभ्यर्णमागादथ वृत्तमत्रे नृपे विशस्तौजसि कोपि धृष्टः । कष्टः पुमान्घुष्टगुणावबद्धातिकष्टकेशो घुषितानि कुर्वन् ॥ ५४॥ ५४. अथ देव्युत्पातानन्तरं कोप्यज्ञात: पुमान् पुरूपधारी सुरोभ्यर्ण कर्णसमीपमागात् । क सति । विशस्तौजसि प्रौढप्रतापे नृपे कर्णे वृत्तमत्रे जपितलक्ष्मीमत्रे । कीदृग् । धृष्टः प्रगल्भस्तथा कष्टः कषिष्यति कष्टं कृच्छ्रे तस्य हेतुस्तथा घुष्टेन संबद्धावयवेन निबिडेनेत्यर्थः । गुणेन ज्वावबद्धाः संयमिता अतिकष्टा अतिगहनाः केशा यस्य सः । तथा घुषितानि नानाशब्दितानि कुर्वन् । अभ्यर्णम् । अत्र "अविदूरेभेः” [ ६४ ] इति नेट् ॥ वृत्तमन्त्रे । अ "वृत्तेः(तेः ?)'' [ ६५] इत्यादिना वृत्तेति निपात्यम् ॥ पृष्टः । विशस्त । इत्यत्र "भूष” [ ६६ ] इत्यादिना नेट् ॥ कष्टः । अतिकष्ट । इत्यत्र “कषः" [ ६७ ] इत्यादिना नेट् ॥ घुष्टगुण । इत्यत्र "घुषः” [ ६८ ] इत्यादिना नेद ॥ अविशब्द इति किम् । घुषितानि ॥ १ए °माथावथ. २ ए °पि सृष्टः ।. १ ए अमू । अ. २ एणः । व्य'. ३ सी अर्णम् ॥ अ. डी अर्णः ।। अं. ४ सी डी ण स. ५ ए सि नृ. ६ बी निवडे. ७ ए रज्व अव. ८ ए केनाय”. ९ बी सी डी शा येन सः. १० ए बी ई त्र वत्तें: इ. ११ ए "त्य ॥धृ. १२ ए अधिष्टष्टेत्यकष्टेत्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828