________________
व्याश्रयमहाकाव्ये [कर्णराजः] __ अौ। सुव्यक्तम् । असू । अस्त । इत्यत्र “वेटोपतः” [ ६२ ] इति नेट् ॥ केचिदस्यतेर्भावेक्ते नित्यमिटमिच्छन्ति । असितैः॥ अपत इति किम् । उत्पतितः॥ , समर्णः । न्यणः । व्यर्ण । इत्यत्र “संनि" [ ६३ ] इत्यादिना नेट् ॥ संनिवेरिति किम् । अदितैः ॥ कश्चित्केवलादपीच्छति। अर्ण ॥ अभ्यर्णमागादथ वृत्तमत्रे नृपे विशस्तौजसि कोपि धृष्टः । कष्टः पुमान्घुष्टगुणावबद्धातिकष्टकेशो घुषितानि कुर्वन् ॥ ५४॥
५४. अथ देव्युत्पातानन्तरं कोप्यज्ञात: पुमान् पुरूपधारी सुरोभ्यर्ण कर्णसमीपमागात् । क सति । विशस्तौजसि प्रौढप्रतापे नृपे कर्णे वृत्तमत्रे जपितलक्ष्मीमत्रे । कीदृग् । धृष्टः प्रगल्भस्तथा कष्टः कषिष्यति कष्टं कृच्छ्रे तस्य हेतुस्तथा घुष्टेन संबद्धावयवेन निबिडेनेत्यर्थः । गुणेन ज्वावबद्धाः संयमिता अतिकष्टा अतिगहनाः केशा यस्य सः । तथा घुषितानि नानाशब्दितानि कुर्वन् । अभ्यर्णम् । अत्र "अविदूरेभेः” [ ६४ ] इति नेट् ॥ वृत्तमन्त्रे । अ "वृत्तेः(तेः ?)'' [ ६५] इत्यादिना वृत्तेति निपात्यम् ॥ पृष्टः । विशस्त । इत्यत्र "भूष” [ ६६ ] इत्यादिना नेट् ॥ कष्टः । अतिकष्ट । इत्यत्र “कषः" [ ६७ ] इत्यादिना नेट् ॥
घुष्टगुण । इत्यत्र "घुषः” [ ६८ ] इत्यादिना नेद ॥ अविशब्द इति किम् । घुषितानि ॥
१ए °माथावथ. २ ए °पि सृष्टः ।.
१ ए अमू । अ. २ एणः । व्य'. ३ सी अर्णम् ॥ अ. डी अर्णः ।। अं. ४ सी डी ण स. ५ ए सि नृ. ६ बी निवडे. ७ ए रज्व अव. ८ ए केनाय”. ९ बी सी डी शा येन सः. १० ए बी ई त्र वत्तें: इ. ११ ए "त्य ॥धृ. १२ ए अधिष्टष्टेत्यकष्टेत्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org