________________
[ है० ४.४.२६.] दशमः सर्गः ।
७६७ अध्यैष्ट यांस्तान्पुनरध्यगीष्टाध्यजीगपत्स्त्रैणमितश्च रासान् । हल्लीसमध्यैष्यत चेद्भवत्यध्यगीष्य इत्याशु मिथो ब्रुवाणम् ॥२२॥
२२. इतोस्मिन्वर्षाऋतौ स्त्रैणं यान् रासानध्यैष्ठापाठीत् । तानासान् गेयकाव्यविशेषान्पुनर्भूयोप्यध्यगीष्टाध्यजीगपञ्चान्यस्त्रैणमेव कर्मापीपठच्च रासान्स्वयं द्विस्त्रिर्वोच्चार्यान्यस्त्रैणेनोचारयामासेत्यर्थः । वृष्टौ हि स्त्रियः प्रमुदिता रासान्ददति । कीदृक् । मिथोन्योन्यं ब्रुवाणम् । किमित्याह । चेद्यदि भवती वं हल्लीसं नारीणां मण्डलीनृत्तमध्यैष्यताशिक्षयिष्यत तदाहमपि हल्लीसमाश्वध्यगीध्ये शिक्षिष्य इति । केचिद्भूतेपि हेतुफले क्रियातिपत्तिमिच्छन्ति तन्मतेत्र क्रियातिपत्तिः ॥ मूर्थीप्रिया मेत्यवदंश्चिरायाध्यायन्निरायन्पथि कष्टमासन् । पान्थास्तदा व्योम्नि यदा पयोद आटीद्वलाकाततिराटदारात्
॥२३॥ २३. यदा व्योम्नि पयोदो मेघ आटीप्रससार तथारान्निकटे बलाकाततिराटदेभ्राम्यंत्तदा पान्थाश्विरायाध्यायन्नस्मरन्नवदंश्च । किमित्याह । प्रिया जातावेकवचनम् । वल्लभा मा मू दस्मद्वियोगे मा विचेतीभूदिति । अत एव निरायन्यस्मिन्देशे गता आसंस्ततो निर्गता अत एव च पथि जलदुर्गत्वात्कष्टमासन् ॥ न चेद्धनाटिष्य इहाभविष्यं कथं तृषाहं भविता विहस्तः । चिरंतदास्स्वेति वदन्किलास्ते स्म चातकः पत्रपयोपि लिप्मुः॥२४॥
२४. चातक आस्ते स्म तस्थौ । कीहक्सन् । वदन् किल मेघदर्श१ई पस्त्रैण०. २ ए सी मध्येष्य'. ३ बी यत्पथि. १ए पात्पुन.२ ए मध्येष्य'. ३ ई 'यिक्षत. ४ सी यति तदा . ५ ए शिष्य. ६ ई ते क्रि. ७ सी प्रशसा. ८ बी तदारा. ९ सी दवा. १० ए म्यस्तदा. ११ ए तस्वौ । की.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org