Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
द्याश्रयमहाकाव्ये अष्टमः सर्गः ।
नागाद्भीमोथोदपाद्यद्भुतश्रीर्चालो प्युच्चैरग्निवद्योत्यदीपि । अर्को वादीपिष्ट सोत्राजनिष्टाद्येो भीमः किं सोजनीन्द्रानुजो वा ॥ १ ॥
१. अथानन्तरं नागान्नागराजाद्दुर्लभानुजाद्भीमो भीमाख्यः पुत्र उदपादि । यो भीम उच्चैरतिशयेन बालोपि तद्दिनजातोपीत्यर्थः । अद्भुतश्रीराश्चर्यकारितेजस्वितादिलक्ष्मीकः सन्नत्यदीप्यतिशयेन दिद्युते । अभिवदक वादीपिष्टेति यथाग्निरक वा दिद्युते । अत एवोत्प्रेक्ष्यते । स तेजस्वितादिगुणैः सर्वत्र प्रसिद्ध आद्यः पूँर्वो भीमः पाण्डवोजनिष्ट किं वा स इन्द्रानुजो विष्णुरजनि ॥ सर्गेस्मिन्विर्शेतिं वृत्तानि यावच्छालिनी । ततः परं स्वागता छन्दः ॥
तस्योत्पच्या निष्पितॄणं व्यबुद्धात्मानं राजा नागराजोप्यबोधि । द्वारं लोकोपूर्यपूरिष्ट मध्यं हर्षं सद्योताय्यतायिष्ट गीतम् ॥ २ ॥
२. तस्य भीमस्योत्पत्त्या राजा दुर्लभ आत्मानं निष्पितॄणं पितृणात्पूर्वज ऋणान्निष्क्रान्तं व्यबुद्धामंस्त । तथा नागराजोप्यात्मानं निष्पितॄणमबोधि । जायमानो हि नरो मुनिदेवतापितॄणामृणबद्धः स्यात्तत्र ब्रह्मचर्यस्वाध्यायाभ्यामृषीणामनृणो भवति यागेन देवानां
Ε
१ बी निपितॄ .
१ ए अनान' २ बी ई जश्विता ३ सी डी पूर्वभी ४ बी सी डी "शतिवृ' ५ सी डी 'निक्रान्तं. ६ ई 'बीनाम',
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org