Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
७५४
व्याश्रयमहाकाव्ये
[ कर्णराजः]
जेनीयते यां न हि नो जघान तां मे प्रजा जङ्घनिता नु कोपि। आसीदसूनोरिति धैर्यघाती नृपस्य चिन्ताकुलिशाभिघातः ॥२॥
२. धैर्यघाती धैर्य व्यसनेप्यकातयं तद्विनाशी नृपस्य कर्णस्य चिन्ताकुंलिशाभिघातश्चिन्तैवातिदुःखकत्वाद्वैज्राघातोभूत् । कथमित्याह । तां मे ममासूनोनिष्पुत्रस्य सतः प्रजां लोकम् । नु इति संभावने । संभावयेहं कोपि जङ्घनिता मत्तोनन्तरं कुटिलं गमिष्यत्यभिषेणयिध्यतीत्यर्थः । अत्यर्थं हनिष्यति वा । यां न हि नैव कोपि जेनीयतेत्यर्थं हिनस्ति न जघान वेति ॥ योनेशदाघानि मया स नाजौ नश्यामि नो नाप्यनशं स्वयं च । परस्त्रियो नाश्वमवोचमास्थं कथं न्वपप्तं विसुतत्वदुःखे ॥३॥ ... त्वमात्मजेनाभ्युदियाः प्रतीयास्तत्स्पर्शसौख्यं प्रतियाः प्रमोदम् । मयीत्यसंशय्य समुह्यते स्म यद्ध्यानशय्यैस्तदु किं नु शेते ॥ ४॥ मां संततीयनंधियासमास्तूयासं शुचीभूय भृशायमानः । चेचीयमानः परिचीयमानं वल्गूयदोजास्तदहं समाधिम् ॥५॥
१ सी डी जेघीय. २ ए हि भोज'. ३ ए न ता मे. ४ सीता न को. ५ सी डी 'नोरति. ६ ई कुलशा. ७ ए नि यमा स. ८ ई भ्युदयाः... ९ ए °तिया प्र. १० ए यद्वानशब्योथर्तिक नु. ११ ई शेतम् ॥ मां. १२ ए न--स. १३ बी समांस्तू. १४ ए °मान प. १५ ए °स्तमहं. १६ ए धि ॥ मा.
१ए कार्य तद्वि. २ ई कुलशा'. ३ ए द्वजापा. ४ ए नोनिष्पु. बी नोनिप्पुत्र. ५ ई नित्पुत्र'. ६ ए तामुत्तो'. ७ बी णयषती. ८ ए न दि नै. ९ ए सी डी जेनीय. १० बी ई °न चेति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org